________________
४१०
कातन्त्रव्याकरणम्
इतोग्रहणम् अवध्यर्थम् । तेन सन्वद्भावादभ्यासलोपो न भवतीति ‘अमीमपत्' इत्यादौ चेत्, तदसत् । पूर्वस्याभ्याससन्मात्राश्रयिणः कार्यस्यातिदेशादिह सन्नियोगशिष्टस्य कुतः प्राप्तिरािते ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमेव | पुनरित्यादि । अभ्यासस्याभ्यासस्येति वाक्यार्षः। एकेनाभ्यासस्यान्तलोपे प्राप्ते द्वितीयेन समस्तस्य भवतीत्यर्थः । ननु च द्विप्रयोगपक्षे अनर्थान्तरवाचित्वादनर्थकत्वमेवानभ्यासस्य स्थाने द्विर्वचनपक्षेऽपि श्रूयते समुदाय एवार्थवान्, ततश्च नानर्थक्ये वर्णान्तविधिरिति ? सत्यम् ।अभ्यासेऽनर्थकऽपि तदन्तविधिः प्रतिपत्तव्यः, अन्यथा "भृहामाममित्" (३।३।२४) इत्यादौ दोषः स्यात् ।। ५३५।
[वि० प०]
इतः । अथ किमर्थमिदम् इतो ग्रहणं “सनि निमीमादारभलभशकपतपदामिस् स्वरस्याभ्यासलोपश्च"इत्येकमेव सूत्रमुच्यताम्, अभ्यासलोपश्चानुवर्तिष्यते एवेत्याह - इतः सूत्रादित्यादि । अन्यथा “अलोपे समानस्य" (३।३।३५) इत्यादिना सन्वद्भावोऽस्तीति 'अचीकरत' इत्यादावभ्यासस्येत्त्ववदिनि चणपरे मिञादीनाम अभ्यासलोप इसादेशश्च प्राप्नोतीति । 'अमीमपत्' इति । 'मिञ् मिह' वा इन्, "मीनातिपिनोति०" (३।४।२२) इत्यादिना आकारे मारूपो वा धातुः "अर्तिहीली०" (३।६।२२) इत्यादिना पकारागमः, चणादि पूर्ववत् । अभ्यासग्रहणं दृष्टानुवृत्तिकतया वर्तत एवेत्याह - पुनरित्यादि । अन्यथा अन्तस्यैव लोपः स्यात् । न च वक्तव्यम् – 'नानर्यक्ये वर्णान्तस्य विषिः' इति समस्तस्य लोपो भविष्यति यस्मादिहानर्थकस्याप्यभ्यासस्य तदन्तविधिरिष्यते । कथमन्यथा "भृहाइमाडामित्" (३।३।२४) इत्यादौ तदन्तकार्यं स्यात् इति ।। ५३५।
[बि० टी०]
इतो० । इतः सूत्रादिति वृत्तिः। नन्वत्र इतोग्रहणाभावेऽपि पूर्वसूत्रेणाभ्यासलोपो न भविष्यति तर्हि मीञादीनां सन्वद्भावे लोपः स्यात् । यथा अमीमपत् । नैवम्, व्यक्तिपते एतल्लक्ष्यविषयाणां लक्षणानामानर्थक्यमापद्येत । तस्मात् "सनि मिमी." (३।३।३९) इत्यादिसूत्रस्य सनि विषये नातिदिष्टे सनीति चेत्, जातिपक्षाङ्गीकाराद् दोषावसर इत्याह - इत इति वृत्तिः ।।५३५।
॥इति बित्नेश्वरकृतटीकायां तृतीये आख्याताप्पाये तृतीयो विर्वचनपादः समाप्तः॥