________________
३९०
कातन्त्रव्याकरणम्
किम् ? वनीवच्यते, वरीवृश्च्यते । अनागमस्येति वचनमभ्यासविकारेष्वपवादो नोत्सर्ग बाधते इति ज्ञापनार्थम्, तेन ‘मीमांसते' इत्यादयः सिद्धाः ।। ५२६ ।
[दु० टी०]
दीर्घः । इह परिशिष्टस्याकारस्य दीर्घोऽवसीयते । मतान्तरे तु सजातीयस्यैव स्वरस्य दीर्घ इति दीर्घग्रहणं न सुखार्थमुच्यते । न भविष्यत्यागमो यस्य स इहानागम उच्यते, वर्तमानेनागमेनासम्बन्धात् । ननु चापवादत्वादागमे सति ह्रस्वान्तत्वाभावान्न दीर्घो भविष्यति, किं प्रतिषेधेनेत्याह - अनागमस्येत्यादि । यस्त्विमां परिभाषां नादरयति, तस्य वर्तमानेनैवागमेन सम्बन्धो व्यञ्जनावशेषादिर्भवति भिन्नविषयत्वात् । पूर्ववच्चेक्रीयितलुगन्तस्य पापचीति । अत्रापि जहातेर्नेच्छन्ति-जहाति, जहीति | पक्षे ईट् ।।५२६।
[वि० प०]
दीर्घो० । न भविष्यत्यागमो यस्य सोऽनागमः। 'वनीवच्यते' इति "वन्चिनन्सि०" (३।३।३०) इत्यादिना नीरागमो भविष्यतीति मत्वा न पूर्वं दीर्घः प्रवर्तते । एवं तश्चेरपि ग्रह्यादित्वात् सम्प्रसारणे "ऋमतो रीः" (३।३।३४)। ननु चापवादत्वात् पूर्वमागमे सति अभ्यासस्य ह्रस्वान्तत्वाभावादेव न भविष्यतीति किं निषेधेनेत्याह - अनागमस्येत्यादि । तेन "मानवध्दान्शान्यो दीर्घश्चाभ्यासस्य" (३।२१३) इति विहितस्य दीर्घस्यापवादत्वेऽपि "सन्यवर्णस्य" (३।३।२६) इत्युत्सर्गः प्रवर्तते ततो दीर्घ इति । तथा च तत्रैव दर्शितम, अत एव न भविष्यत्यागमो यस्येति विग्रहो दर्शितः, वर्तमानेनागमेनासम्बन्धात् तदसम्बन्धश्चापवादानां पश्चात् प्रवृत्तेरिति ।।५२६।
[वि० टी०]
दीर्घः । 'आ' इति सिद्धे दीर्घग्रहणं सुखार्थम् । यस्तु 'अभ्यासविकारेष्वपवादो नोत्सर्ग बाधते' (का० परि० ६४) इति मन्यते, तन्मते दीर्घग्रहणं स्वरजातीयस्य स्यान्न व्यञ्जनस्येत्येतदर्थम् । ननु अपवादत्वात् पूर्वमेवागम इत्यादि कथमपवादत्वम्, भिन्नस्थानत्वात् । नैवम्, अभ्यासमाश्रित्य कार्यद्वयविधानाद् यथाकथञ्चिदेकवाक्यतायाम् उक्तिबाधा भवति, एतेन 'येन नाप्राप्तौ यो विधिरारभ्यते, स तस्य बाधकः' (व्या० परि० ४२) इति भिन्नविषये यथाकथञ्चिदेकवाक्यतायां न्यायोऽयमभ्युपगमः । यथा "शिटपरोऽघोषः"(३।३।१०) इति । अत एव दुर्गवाक्ये नात्र प्राप्त्यपवादत्वादित्युक्तम् । अत एव न भविष्यति आगमो यस्येत्यादि । यस्त्विमां परिभाषां नाद्रियते, तन्मते न विद्यते आगमो यस्येति ।। ५२६।