________________
३७४
कातन्त्रव्याकरणम्
[दु० टी०]
निजिविजि० । निजामिति कृत्वा वृच्छब्द आद्रियताम्, बहुवचनेन च 'निजिर शौचपोषणयोः, विजिर् पृथग्भावे, विष्लू व्याप्तौ' (२।८१,८२,८३) एते त्रय एवावसीयन्ते । किन्तु प्रतिपत्तिगौरवं स्यात् । एदिति सिद्धे गुणग्रहणं सष्टार्थम् । अभ्यासविकारत्वाद् व्यञ्जनलोपे सतीकारस्य एकार इति भावः । अनुलुकीति सिद्धे सार्वधातुकमपि तथैव ।। ५२०।
[वि० प०]
निजि० । अर्थादिकारस्येति । कथमेतदिह विशेषाभावाद् व्यञ्जनस्यैव कथं न स्याज्जकारस्य तालव्यस्यैकारः षकारस्य मूर्धन्यस्य अरिति । तथा च व्यञ्जनस्य गुणनिषेधार्थं नाम्यन्तयोरिति नामिग्रहणं वक्ष्यति । न चेह तदस्तीति । तस्माद् विशेषविधित्वाद् अभ्यासलोपापवादो गुण एव स्यात् । नैतदेवम्, इहाभ्यासविकारेष्वपवादो नोत्सर्गं बाधते इति अनागमग्रहणेन ज्ञापयिष्यति । तेनाभ्यासलोपे वर्णान्तस्य विधिरिति न्यायादिकारस्यैव गुण इत्यदोषः। 'निजिर् शौचपोषणयोः, विजिर् पृथग्भावे, विष्लु व्याप्ती' (२।८१, ८२, ८३), जुहोत्यादित्वाद् द्विर्वचनं यथायोगं "चवर्गस्य किरसवर्णे" (३।६।५५) षाट्टवर्गश्च भवति ।। ५२० ।
[वि० टी०]
निजि० । निजामिति बहुवचने गणे वृत्करणे निजिविजिविषस्त्रय एवावसीयन्ते, किन्तु प्रतिपत्तिगौरवं स्यात् । एदिति सिद्धे गुणग्रहणं स्पष्टार्थम् । अन्लुकीति कृते सिद्धे सार्वधातुकग्रहणं तथैवेति टीका | वर्णान्तस्य विधिरिति न्यायादिकारस्यैवेति पञ्जिकायाम् । अत्रारो गुणस्यैकदेशेनान्तरतमं कोऽपि स्थानी विद्यत इति न स्यात् । योऽपि यकारः सोऽपि लुप्तः, अतो न अर् गुणो भवितुमर्हति, किन्त्वकारस्य
ओकारस्य गुणस्यैकदेशान्तरतमो विद्यते । तथा च एकारस्यैकारस्तत्र वर्णान्तस्य विधिरित्यनेन इकारस्यैकारो न तु ओकारस्यौकार इत्यर्थः । ननु निव्योर्गुणः सार्वधातुके स्यादिति विप्रतिपद्येत, सार्वधातुके योऽभ्यास इत्यपि प्रतिपत्तिगौरवं स्यात् ।। ५२०|
[समीक्षा]
'नि-विज्-विष्' धातुओं से वर्तमाना आदि सार्वधातुकसंज्ञक प्रत्ययों में 'नेनेक्ति, वेवेक्ति, वेवेष्टि' इत्यादि शब्दरूपों के सिद्ध्यर्थ अभ्यासवर्ती इकार को एकारादेश की अपेक्षा होती है । इसी की पूर्ति कातन्त्रकार ने प्रकृत सूत्र द्वारा की है | पाणिनि का एतदर्थ सूत्र है -. "निजां त्रयाणां गुणः श्लौ" (अ०७।४।७५)।