________________
तृतीये आख्याताप्याये तृतीयो बिचनपादः
३७१ अथ किमर्थं श्तिपा निर्देशः, 'भुवोऽद्' इत्युच्यताम्? सत्यम् । भवतेरिति कर्तृपदनिर्देशात् कर्तर्येव परोक्षायामकारो भवति, न भावकर्मणोरिति प्रदर्शनार्थः श्तिपा निर्देशः । तेन 'बुभूवे छात्रेण, अनुबुभूवे कम्बलो वटुना' इति सिद्धम् । यस्त्वाह - भुवोऽकार इति । तन्मते सामान्यनिर्देशाद् भावकर्मणोरप्यकारो भवत्येवेति । ननु कथमयं कर्तृनिर्देशो यावता धातुस्वरूपनिर्देशयात्रे इकिश्तिपो ज्ञापिता इति । तदयुक्तम्, नहीयता कर्तृनिर्देशापह्नवो युज्यते 'कर्तरि कृतः' इत्युत्सर्गसिद्धशास्त्रस्य बाधितुमशक्यत्वात् । अन्यथा विकरणोऽपि कथं स्यात् ।
न च वक्तव्यम् - शकारानुबन्धबलादेव विकरण इति, स हि सार्वधातुकार्थो न विकरणार्थः । यदाह पाणिनिः- "तिशित् सार्वधातुकम्" (अ० ३।४।११३) इति । अत एव पकारोऽप्यनुवध्यते, अन्यथा हि " सार्वधातुकमपित्" (अ०१।२।४) इति वचनाद् अपानुबन्धं सार्वधातुकमगुणमेवेति, कथम् ‘अर्तिकरोति - वेत्ति' इत्यादिषु श्तिपा निर्देशे गुणः स्यात् । ननु कर्ता हि नाम व्यापारवान् भवति, न चेह श्तिप्रत्ययेन निर्दिश्यमानस्य धातोर्व्यापार उपलभ्यते, तत् कथं कर्तनिर्देश इति ? तदयुक्तम् । अभिप्रायापरिज्ञानात् । कर्तृनिर्देशादिति कर्तरि निर्देशः कर्तृनिर्देश इति विग्रहार्थः । न तु कर्तृनिर्देश इत्येतदुक्तं भवति । कर्तरि सिद्धस्य भवतेरित्यस्य शब्दस्य निर्देशो न कर्ताऽत्र निर्दिष्ट इति । ननु विरुद्धमिदं कर्तरि निर्देशः शब्दस्य न तु कर्ताऽत्र निर्दिष्ट इति । न तावद् विरुद्धम्, न हि सर्वे शब्दाः व्युत्पत्त्यर्थमभिदधति, व्युत्पत्तीनां यथाकथञ्चिदपि संभवात् । तथाहि यथा यज्ञे एनं देयादिति यज्ञदत्तशब्दो व्युत्पाद्यते, न चात्र धातोर्युत्पत्त्यनुसारिणोऽर्थस्य प्रतीतिः, अपि तु कश्चित् पुरुष एव प्रतीयते । अथ संज्ञानुरोधादिह व्युत्पत्त्यर्थस्त्यज्यते अन्यथा संज्ञैव न गम्यते इति चेदेवं तर्हि धातुस्वरूपानुरोधादिहापि किमिति कर्ता न त्यज्यते, तपत्र बाह्यस्य व्यङ्ग्यस्य कर्तुरवगमे धातुस्वरूपं प्रतीयते । उदाहरणमात्रं चात्र यज्ञदत्त इति । अन्येऽप्यत्र कृतव्युत्पत्तयो बहुलमर्थान्तरे दृश्यन्ते । यदपि गेहेनर्दिनोक्तं नेतरैरिदमुक्तमिति, तदप्ययुक्तम् । न ह्यनुक्तमिति त्यज्यते किन्तर्हि अयुक्तमिति गृह्यते किन्तर्हि युक्तमिति ।
किञ्च वृद्धकातन्वैरुक्तं चेदं शाकटायनोऽपि पूर्वपक्षे स्थितः प्राह - भूव्यथोरदिति सूत्रे केचिद् भवतिव्यथोरदिति निर्देशमिच्छन्ति । तत्र किं न भवतीति कर्तृनिर्देशात् कर्तर्येव लिटि भुवोऽकारो भवति, न भावकर्मणोरिति । तस्मात् कर्तरि कृतः इत्युत्सर्गस्यानतिक्रमणीयत्वात् कर्तृनिर्देश एवायमित्यत्रार्थे यनः आस्थेयः, न पुनरस्यापह्नवो युक्त इति । यद्येवम्, “अश्नोतेश्व" (३।३।२१) इत्यत्रापि कर्तृनिर्देशो