________________
३५४
कातन्त्रव्याकरणम्
[दु० वृ०]
अभ्यासकवर्गस्य चवर्गो भवति यथासङ्ख्यम् । चकार, चखान, जगाम, जघास, जुडुवे ।। ५१०।
[दु० टी०]
कवर्ग० । आन्तरतम्याद् वा प्रथमस्य प्रथम इति योज्यम्, द्वितीयचतुर्थयोः प्रथमतृतीयौ इति । 'कगडां चजञाः' इति कृते सिध्यति, वर्गग्रहणं वैचित्र्यार्थम् ।।५१०।
[वि०प०]
कवर्गस्य० । जघासेति । "वा परोक्षायाम्" (३।४।८०) इत्यदेघस्लादेशः। झुडुवे इति । 'कुङ खुङ गुङ' इत्यादि दण्डको धातुः । 'कुछ शब्दार्थः' (१।४५८)। ङकार आत्मनेपदार्थः, परोक्षाया ए, "स्वरादाविवर्णोवर्णान्तस्य" (३।४।५५) इत्यादिना उक् ।।५१०।
[बि० टी०]
कवर्ग० । यथासङ्ख्यम् इति वृत्ती, आन्तरतम्याद् वा प्रथमस्य प्रथम इत्यादि योज्यमिति टीकायाम्। पक्षान्तरम् - "द्वितीयचतुर्पयोः प्रथमतृतीयो" (३।३।११) इति खघयोः कगौ, कगडां चजञाः इति कृते सिध्यति । वर्गग्रहणं वैचित्र्याईम् इति टीकायाम्। ननु द्वितीयचतुर्थयोः प्रथमतृतीयौ इति लाक्षणिकत्वाद् अनयोः कगयोः कथमनेन चवर्ग इति तस्य वर्गग्रहणबलात् खघयोरपि भवति, कथं वैचित्र्यामिति टीकायाम् ? सत्यम्, केचिद् आचक्षते - एतादृशलाक्षणिकपरिभाषाभ्युपगमे वैचित्र्यार्थम् इत्युक्तम् । अभ्युपगमे तु तदेव फलम्, तदयुक्तम् । खघयोश्च वर्गवे लाक्षणिकत्वाद् द्वितीयचतुर्थयोः कथं प्रथमठतीयाविति । किञ्च 'अभ्यासविकारेष्वपवादो नोत्सर्ग बाबते' (का० परि० ६४) इति द्वितीयचतुर्थयोः स्थाने प्रथमतृतीयाविति प्रथमो भवितुमर्हति, कथञ्च वगदिश इति । तस्माद् द्वितीयचतुर्थयोः प्रथमतृतीयाविति कृते खघयोः प्रयोजनाभावे यद् वर्गग्रहणं करोति, तत् प्रथमतृतीयत्वेऽपि वर्गग्रहणबलाल्लाक्षणिकयोः प्रथमतृतीययोर्भवतीति वैचित्र्यमर्थः प्रयोजनं यस्येति टीकाशयः। हेमकरस्यापि खघयोर्न प्रयोजनम् इत्येतेन वर्गग्रहणबलाल्लाक्षणिकस्यापि भवतीत्यभिप्रायः ।।५१०।
[समीक्षा]
'चकार, जगाम, जघास' आदि शब्दरूपों के सिद्ध्यर्थ अभ्याससंज्ञक 'कख-ग-घ-ङ' वर्गों के स्थान में 'च-छ-ज-झञ' वर्ण आदेश के रूप में करना आवश्यक है । प्रकृत सूत्र से इसी आवश्यकता की पूर्ति की गई है । पाणिनि का