________________
૩૪૪
कातन्त्रव्याकरणम्
[दु० टी० ]
शिट्० । 'शिटोऽघोषे ' इति सिद्धे परग्रहणं सामीप्यषष्ठीशङ्कानिरासार्थम्, तेन ररक्षेति शिटः समीपस्य ककारस्य निवृत्तिः सिद्धा । तत्पुरुष एवायं न बहुव्रीहि, शिट्यघोष इत्यकरणात् । 'विधिनियमसम्भवे विधिरेव ज्यायान्' (का० परि० ८४ ) इति वा । अनाद्यर्थोऽयमित्यादि । न चाघोषाणामनादित्वाल्लोपे प्राप्ते तन्निवृत्त्यर्थं वचनम्, विषयभेदादविरोधाच्च नानयोरुत्सर्गापवादतेति शिटोऽप्यवशेषः प्राप्नोति पूर्वेण, ततश्च 'पस्पर्श' इत्यादि न सिध्यति ? सत्यम् । अभ्यासकार्यिणमाश्रित्य समान एवायं विषयः इत्यपवादविज्ञानात् सिद्धम् । न ह्यप्राप्तादिशेषेऽभ्यासस्य “शिट्परोऽघोषः” (३।३।१०) इत्युच्यते, सत्यपि सम्भवे बाघनम् । यथा 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय' इति कथम् उचिच्छिषति । 'उठी विपाशे (१।६२; ५।२३) अन्तरङ्गत्वाच्छस्य द्वित्वे पश्चाद् द्विर्वचने सति नायं “ शिट्परोऽघोषः " (३।३।१०) इति छस्यानादित्वाल्लोपे कृते 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) प्राप्नोति नैवम् । पूर्वं चकारस्याभिनिवृत्तस्य श्रुतिरशक्या निवर्तयितुम्, न्यायोऽयमनित्यः पितुरभावेऽपि पुत्रस्य दर्शनात् ।। ५०७ ।
"
[वि० प० ]
शिट्परः । शिटः पर इत्यनेन पञ्चमीलक्षणस्तत्पुरुष एवायम्, न तु शिट् परो यस्मादिति बहुव्रीहिरिति दर्शयति, तदा हि परग्रहणमपनीय 'शिट्यघोष : ' इति कुर्वीत । ननु तथापि शिट इति पञ्चम्येवास्ताम्, शिटः समीपलक्षणं षष्ठीमप्याशङ्केत, ततः शिटः समीपो योऽघोषः सोऽवशेष्यः इति वाक्यार्थे ररक्षेति रक्षेर्द्विर्वचने षकारसमीपः पूर्वः ककारोऽवशिष्यते । आरम्भो यमनाद्यर्थ इति शिटो लोप इत्यर्थ इति । कथमेतत्, इदं हि वचनमनादित्वादघोषस्य लोपे प्राप्ते तदवस्थानार्थमेव भवति । शिटस्तु पूर्वेणावशेषः प्राप्तः, न ह्यनेन तस्य बाधा शक्यते वक्तुं भिन्नविषयत्वेन विरोधाभावात् ? तदयुक्तम्, अभ्यासलक्षणमेकं कार्यिणमाश्रित्य समानविषयत्वमेवेत्यपवादविषयत्वादेवायं पूर्वस्य बाधक इति । तिष्ठेवेति । यकारलोपे निमित्ताभावे नैमित्तिकास्याप्यभाव इति ठकारस्य थकारे " द्वितीयचतुर्थयोः प्रथमतृतीयौ” (३|३|११) इति भवति । अनाद्यर्थोऽयमिति । पूर्वेणादिशेषविधानादेवानादेरघोषस्यावशेषो न प्राप्नोति, अतस्तदर्थोऽयमिति || ५०७ |
[बि० टी० ]
शिट् । शिट्पर इति किमिति । अत्र वैद्यमते शिट्परग्रहणेन किम्, अघोष इत्यास्ताम्, न चादिरघोषोऽवशेषो भवतीति वक्तव्यम्, पूर्वेण सिद्धत्वान्नियमार्थमिति