SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ तृतीये मास्याताप्को कृतीयो पिचारः अन्तरङ्गेऽपि न दकारस्य डकारो वचनात्, 'बत् प्राकृतं बीयः' (कात० ५० ८१) इति वा । अर्चिचिषतीति । 'अर्च पूजायाम्' । नबदरा इति किम् ? ईसईचिक्षिषते । ककारो व्यञ्जनं परस्यापीति परेण स्वरेण सह द्विरुच्यते एव । 'बट्स अतिक्रमसियोः (११३५०) इति दोपचं पठन्त्येके, तेषाम् अटिटिषते । कथमित्यादि । संयोगस्यादिर्य परे नायं रेफः औपश्लेषिकाधारत्वाद् इत्यूर्णोतेप्रतिषेधः स्वरादित्यादि, लिङ्गं चात्र न नबदरा इति प्रतिषेध एवेति व्याख्यातमेव ।।५००। [वि० प०] न न०।न तु ये परे यकार उपश्लिष्टे द्विरुच्यते एवेत्यर्थः। उन्दिदिषतीत्यादि । एषां नबदराणां पूर्वतो विश्लिष्य यथाक्रमं दिजिडिचीनां द्विवचनम् । अड्डिडिषतीति । 'अदइ अभियोगे' (१११२५)। इह टवर्गयोगेऽपि दकारस्य तवर्गश्चटवर्गयोगे चटवर्गावित्यन्तरङ्गोऽपि डकारो न भवति । अत एव प्रतिषेधात् कृते द्विर्वचने भवत्येवेति ।अय इत्यादि ।इहापि "प्रवृतिभ्यश्व" इति वचनाद्"अर्तेर्यशब्दश्चक्रीयिते च" इति गुणः, यकारसहितस्यैव रेफस्य द्विवचनम्, अभ्यासलोपादि पूर्ववत् । अर्यमाख्यातवान् इति "इन् अति पाव" (३।२।९) इति अर्यशब्दाद् इन्, ततः "इनि छिमस्य"(३।२।१२) इत्यादिनाअकारलोपः,ततः "वेषातवः"(३।२।१६) इति धातुत्वे पूर्ववद् अद्यतन्यां चणि कृते इनि यत् कृतं तत् सर्व स्थानिवदिति यशब्दस्य द्विर्वचनं समानलोपत्वान सन्वद्भावः, अवर्णस्याकारः, आर्यद् इत्यपीति । अयमपि यकारेणोपश्लिष्टये रेफस्तेनैतदपि प्रत्युदाहरणमित्यर्थः । कथमित्यादि । प्रपूर्वः 'प्य आच्छादने (२।६४) अत्रापिपूर्ववद्यशब्दो रेफै पूर्वतो विश्लिष्य नुशब्दस्य द्विवचनम्, "गुणश्केकीयिते" (३।३।२८) इति गुणः । “नाम्यन्तानां समावि०" (३।४।७०) इत्यादिना दीर्घः । निमित्तामावे०' (कात० प० २७) इत्यनेन पकारस्य नत्वम् । अये इत्युपश्लेषलक्षणा सप्तमी । न चायं रेफो यकारेणोपश्लिष्ट इति प्रतिषेध एवास्ति इत्येतदेवाह-नायं ये परतः इति । स्वरादित्यादि । आदिभूतात् स्वरात् नकारादिवर्णो द्वितीयोऽवयवो वचनाद् अत एव सूत्रादित्यर्थः। सर्वोद्दिष्टमिदं ज्ञापकं तथा च व्याख्यातमिति ॥५००। [वि० टी०] न नबदराः । अन्तरङ्गोऽपि डकारः पूर्वं न भवति । अत एव प्रतिषेधादिति । ननु अर्दमाख्यातवान् ‘आर्दीदत्' इत्यत्र नामधातोढिर्वचनं चरितार्थम्, तत् कथम् अत
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy