________________
तृतीये आख्याताप्याये तृतीयो खिचनपादः
३०९ अस्याः - वक्ष्यमाणे विविधे स्थितेऽपि तन्मध्ये परानुसारो गदितः । एवमन्येऽपीति यदुक्तं तस्य प्रायोगिकत्वं खलु बोध्यम्, तत्परं यदुक्तं तत् स्वेच्छावशमूहनीयमिति । अन्ये तु परमतमवलम्ब्योक्तमिदम् । परो हि "अकृच्छ्रे प्रियसुखयोः" (अ०८।१।१३) इत्यनन्तरं संभ्रमे यावद्बोधमित्यादि सूत्रमूक्तवान्, तस्य चोदाहरणं वृत्तौ नास्तीति एवमन्येऽप्यनुसर्तव्या इत्युक्तम् । संभ्रम इत्यादि । यावता पदेन बोधस्तावतो द्विवचनम्, संख्यानियमो नास्ति । तत्कथं द्विरुक्तिरित्युच्यते पण्डितफक्किकायां तत्र सिद्धान्ते वार्तिकमिदम्
यावत्प्रबोधो विहिते द्विरुक्ते शब्दस्य संख्यानियमोऽपि नास्ति ।
अनेकवारोक्तिपरस्ततोऽत्र विरुक्तिशब्दः प्रतिपादनीयः।। अस्यार्थः-यावप्रबोधो द्विरुक्ते विहिते शब्दस्य संख्यानियमो नास्ति । ततस्तस्मात् तद्विरुक्तिशब्दोऽनेकवारोक्तिपरः, अनेकवारोच्चारणं भवतीत्यर्थः। तन्न चारु, बोध्यमानपदानामवयवमपेक्ष्य द्विरुक्तिर्घटते एवेत्यदोषः । प्रयोक्तुः स्मरणमिति । यद्ययं न बुध्यते अहं न बोधयामि, तदा नियतदंश एवाहिनेति मन्यमानः प्रयोक्ता सम्भ्रमेणाहिरिति पदं यदि प्रयुङ्क्ते तदा द्विवचनम्-अहिरहिरित्यादि ।नानाभूतानामित्यादि । नानाभूतानां पदार्थानां दीयमानानामित्यर्थः। अस्मात् कार्षापणाद् इत्यत्रास्माद् अनेकमाषसमुदायाद् दीयमानस्य नानात्वमस्त्येव । तत्र माषादधिकं माषात् परं न दातव्यमित्यवधारणम् । इह कार्षापणसम्बन्धिनो माषा इति बहूनां सजातीयानामर्थानां क्रियागुणद्रव्यैर्युगपद् व्याप्तुमिच्छा वीप्सा इत्युक्तमिति | माषद्वयादाने वीप्सा नास्ति इत्याशयः। नानाग्रहणादित्यादि । अत्र हि माषस्य नानात्वं नास्ति । एकमेव दातव्यमित्यवधारणमस्त्येव । अवधारणादन्यत्रेति । अत्र माषस्य नानात्वमस्त्येव, यतो माषमात्रं दातव्यं नाधिकमिति नियमो नास्ति । तदेवाह- द्वौ त्रीन् वेत्यर्थः ।
ननु माषं देहि' इत्युक्ते कथं द्वौ त्रीन् वेत्यर्थ इति ? सत्यम्,जातिपक्षादवधारणादिति जातावेकवचनम् | दुर्गवाक्ये 'मूले मूले स्थूलाः' इति आनुपूर्येण 'मूले मूले स्थूलाः' इत्यर्थः । अपटत् पटत् करोतीति विगृह्येति । ननु “अव्यक्तानुकरणादनेकस्वरादनितौ डाच्” (२।६।४०-२२) इति सूत्रेऽभूततद्भाव इति निवृत्त इत्युक्तम् । तत्कथमभूततद्भावे वाक्यम्, तत्र कश्चित् पटत् पटत् करोतीति वाक्यं वदति, तन्न । अभूततद्भावे निवर्तमाने सामान्ये न भवतीति । अपटत् पटत् करोतीति वाक्यं न युक्तम् । संप्रधारणाविषये च दृश्यते कतरकतराः- अनयोराढ्यता, कतरकतमाः- एषामाढ्यता । कतरकतरोऽ-नयोर्विभवः, कतमकतम एषां विभवः । डतरडतमाभ्यामन्यत्रापि दृश्यते । स्त्रीवचनभावे अस्त्रीवचनभावे कीदृशी कीदृशी अनयोर्विभूतिः, कीदृशः