________________
भूमिका
२३
ग्रन्थमेकं रचयामास । तस्य विद्वत्सभायाम् आद्योपान्त्यरूपेण वाचनानन्तरं नामकरणं संजातम् - ‘सिद्धहैमशब्दानुशासनम्' इति । हर्षध्वनिपूर्वकमयमेव ग्रन्थः 'गुजरात का गौरव ग्रन्थ' रूपेण समुद्घोषितो बभूव ।
प्रो० जैनमहोदयः स्वकीये लेखे वदति यत् सरस्वतीकण्ठाभरणं सिद्धहैमशब्दानुशासनं च केवलं स्वदेशस्यैव गौरवग्रन्थावास्ताम्, परं कातन्त्रव्याकरणस्य देशे विदेशेषु च महतीं लोकप्रियतां दर्शं दर्शं स कस्य गौरवग्रन्थो मन्येत । किं केवलं भारतस्य, एशियामहाद्वीपस्य, समग्रस्य विश्वस्य वा ? इति । स विद्वज्जनसकाशादेवं विज्ञातुमीहते, तदर्थं स पृच्छति यत् तथ्यानि समीक्ष्य मौलिकतां गुणवत्तां लोकप्रियतां च संवीक्ष्य यदि कातन्त्रव्याकरणं विश्वसाहित्यस्य गौरवग्रन्थो मन्येत तर्हि किमत्युक्तिर्भवेत् ? इति । अर्थात् तदीयविचारानुसारं कातन्त्रव्याकरणं विश्वसाहित्यस्यापि गौरवग्रन्थरूपेण सम्मानितं भवितुमर्हतीति दृढं वक्तुं शक्यते । अस्तु साम्प्रतं सः 'जैन समाज का महनीय गौरव ग्रन्थ कातन्त्रव्याकरण' इत्येतस्मिन् लेखे ( प्राकृतविद्या ११ । ४) जैनसमाजस्य गौरवग्रन्थरूपेण कातन्त्रव्याकरणं मुक्तकण्ठं स्वीकरोत्येव ।
स निवेदनपुरस्सरं प्रार्थयते विद्वज्जनान् यत् साम्प्रतमिदमावश्यकं प्रतिभातिजैनपाठशालासु छात्रैरस्याध्ययनमनिवार्यतया क्रियेतैव, अपि च संघस्थसाधुभिः, आर्यिकाभिः साध्वीभिः, व्रतिभिश्चाप्यस्य गहनं तुलनात्मकं चाध्ययनमनुष्ठीयेत, समाजेऽपि तदीयमहत्त्वख्यापनपुरस्सरं प्रचारः प्रसारश्च विधेयः । अथ च जैनप्रोफेसरमहोदयैः प्रयत्नेन पाठ्यक्रमे कातन्त्रस्य समावेशः कार्यः । परमपूज्या आचार्यश्रीविद्यानन्दमहाराजमहाशया अस्याभ्युदयार्थमत्यन्तं व्यग्राः सन्ति । ते दीर्घकालादेव कातन्त्रव्याकरणस्य व्यापकाध्ययनेऽनुशीलने शोधात्मक चिन्तने च व्यापृतमानसाः परिलक्ष्यन्ते । तेषामेव सत्प्रेरणया विषयेऽस्मिन्नाचार्य - उमास्वामिनाम्ना निर्धारितेन लक्षमुद्रात्मकपुरस्कारेण प्रो० जानकीप्रसादद्विवेदः सम्मानितः श्रीकुन्दकुन्दभारतीन्यासस्य प्रवरसमित्या १९९९ तमयीशवीयाब्दे मार्चमासस्य चतुर्दशे दिनाङ्के । एतेन जैनसमाजस्य परममिदं कर्तव्यमाभाति साम्प्रतं यत् स स्वकीयातीतकालीनगौरवग्रन्थान् संस्मरतु, स्वाध्यायमाचरतु, तदीयमहत्त्वमवगच्छतु, शोधार्थिजनान् प्रोत्साहयतु, तान् पुरस्कारादिभिः संमानितानपि करोतु, येनास्माकं गौरवग्रन्थाः सुरक्षिताः भवन्तु इत्यादि ।
"
अयमन्योऽप्येको हर्षविषयो यदैषमः ८।६।२००० दिनाङ्कादारभ्य २२।६।२००० दिनाङ्कपर्यन्तं पञ्चदशदिवसीयकार्यशालायां कातन्त्रे बहूनि व्याख्यानानि मया श्रीकुन्दकुन्दभारतीसंस्थाने प्रदत्तानि यत्र स्वयम् आचार्यश्रीविद्यानन्दमहाराजमहाभागैर्बहुभिरध्यापकैः शोधार्थिभिः शब्दविद्यानुरागिभिश्च सार्धं भागो गृहीतः । एतेन कार्यक्रमेण सर्वे महतीं मुदं लब्धवन्तः । अग्रेऽपि कार्यक्रमोऽयं बहुधा प्रवर्तितो भवेदित्याशास्यते । तस्मिन् कार्यक्रमे विचारिता: प्रमुखा विषया एते सन्ति -