________________
२७८
कातन्त्रव्याकरणम्
४९५. इन्स्य जादेरुभयम् [३।२।४५] [सूत्रार्थ]
इन्प्रत्ययान्त, अकारानुबन्धविशिष्ट तथा यजादिगणपठित धातुओं से कर्ता अर्थ में उभयपद का विधान होता है ।। ४९५।
[दु० वृ०]
इनन्ताञनुबन्धाद् यजादेश्चोभयपदं भवति कर्तर्यभिधेये । कारयति, कारयते । सुनोति, सुनुते । यजति, यजते । पचति, पचते । समाहारानुबन्धा ये ते यजादयः। अफलवति कर्तर्यात्मनेपदं च दृश्यते । यथा वृक्षं परिवारयन्ते कण्टकाः, शोषयते व्रीहीनातपः, तब दर्शनं किं न पत्ते, कमलबनोद्घाटनं कुर्वते ये, माणवकं ब्रूते, मरीचीन् वितनुते । फलवति कर्तरि परस्मैपदं च दृश्यते- स्वं कटं कारयति, स्वमङ्गं कण्डूयति, स्वं यज्ञं यजति, स्वं पुत्रमपवदति, स्वमश्वं जानाति । अपदान्तरद्योत्येऽपि दृश्यते – 'तनोति शुभं गुणसम्पदा यशः' । यजेरपि विवक्षया भवितव्यमेवेति मतम् । गणकारवचनप्रमाणार्थमिदम् ।।४९५/
[दु० टी०]
इन् । अकारः स्थितिमानास्तीत्याह - अनुबन्धादित्यादि । उदात्तानुदात्तयोर्मिश्रयोश्च समाहारो लोकोपचारात्, सोऽनुबन्धोऽयमिति । यस्त्वाह - येभ्य उभयतोभाषा इति श्रूयते, ते जादयः । तन्मते भृहामाङामिदिति धूप्रीणात्योर्न इत्यादिनिर्देशान् विमुच्यान्येऽनुबन्धा ञकाराः पठिता एव । कण्डूयप्रभृत्यर्थं ञकार उच्यते । कथं डाउलोहितादिभ्य आयेरुभयपदित्वम् ? सत्यम् ? यजिरिहोपलक्षणम् । आदिग्रहणादन्येभ्योऽपि यजिप्रकारेभ्य इति वा, तेनाकृतिगणत्वान्न दुष्यति फलवति कर्तर्यात्मनेपदम्, अन्यत्र परस्मैपदमन्यो ब्रूते । तदयुक्तमित्याह-अफलवतीत्यादि । यद्यपि 'कण्टकैः पुरुषा वृक्षं परिवारयन्ते', तथाप्यानुकूल्यात् करणस्य कर्तृत्वविवक्षा | आवरणफलं तु पुरुषा एवोपभुञ्जते, तथा शुष्कव्रीहिक्षोदनफलं पुरुषा एवोपभुञ्जते न त्वातपः । अथ विवक्षया तर्हि नियुक्तः 'कारयते स्वं कटं भृत्यः, कुरुते कर्म दासः, पचन्ते सूपकाराः, यजन्ते याजकाः' इति कथन्न भवति । सर्वत्र कर्तारं क्रियाफलमभिप्रैति, तत्र प्रकर्षगतिर्विज्ञास्यते, साधीयो यत्र कर्तारं क्रियाफलमभिप्रैति, न चान्तरेण यजिं यजिफलम्, कृषि कृषिफलम्, याजकाः पुनरन्तरेणापि यजिं गां लभन्ते भृत्याश्च भक्तमिति किं विशेषवचनेन, महाकविभिश्चाविशेषेणैव निबद्धम् - 'तवात्मयोनेरिव