________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
२६७ मित्याह - तेनेति वृत्तिः। कर्तृत्वेन कर्मत्वेऽपनीते सति धातोरकर्मकत्वाद् भावेऽपि भवतीत्याशयः । अत एव पञीकृतापि तत्प्रतिबन्धमेव कार्यमित्यत्र एवशब्दः प्रयुक्तः । अस्यायमाशयः- कर्तृत्वप्रतिबन्धमेव कार्यम्, न तु कर्मत्वप्रतिबन्धमिति । यदि कर्मत्वप्रतिबन्धमपि कार्यं भविष्यति तदा भावे न स्यादिति पूर्वसूत्रे भावग्रहणात् । अकर्मकधातोरेव भावे प्रत्ययविधानात् । ननु तथापि कथं भावे प्रत्ययः कर्ततो भावस्य भिन्नत्वात् चेत् ? न, भावो हि भवित्रपेक्षो भवति, भविता च कर्तेति न दोषः । ___ननु वद्ग्रहणं कर्तृत्वार्थमित्युच्यते, तथा कर्मकर्तरि कर्तरि विहितः प्रत्ययोऽपि स्यादिति । तदा 'लूयते केदारः स्वयमेव' इति विवक्षायां 'लुनाति केदारः स्वयमेव' इत्यपि स्यात् । सत्यम्, “शेषात् कर्तरि" (३।२।४७) इत्यत्र कर्तरि रुचादीत्यतः कर्तरीत्यनुवृत्तौ सिद्धौ यत् पुनः कर्तृग्रहणं तत् शुद्धकर्तर्येव परस्मैपदं यथा स्यात् तेन कर्मकर्तरि न भवतीति तत्रैवोक्तम् । अथ मा भूतु कर्तरि परस्मैपदम् "इन्यजादेः" (३।२।४५) इत्यनेनात्मनेपदं स्यात् ? सत्यम्, “शेषात् कर्तरि" (३।२।४७) इत्यत्र सिंहगुहावलोकनन्यायेन "कर्तरि रुचादि०" (३।२।४२) इत्यत्रापि कर्तुरनुवर्तनात् शुद्धे कर्तर्यात्मनेपदमिति व्याख्यातव्यम्, अतो न कर्मकर्तरि कर्तर्यात्मनेपदमिति। यद् वा यदि कर्तृत्वमाश्रित्य कर्तृविहितः प्रत्ययोऽपि स्यादित्युच्यते, तदा वद्ग्रहणमपास्य कर्मकर्ता कर्म वेति विदध्यात् तदैव कर्मवद्भावात् 'पच्यते ओदनः स्वयमेव' इति भविष्यति ।
विकल्पपक्षे च ‘पचत्योदनः स्वयमेव' इति कर्तरि, भावेऽपि ‘पच्यते ओदनेन स्वयमेव' इति रूपत्रयं भविष्यति । तस्मादेवं मनसि कृत्वा यद् वद्ग्रहणं तद् बोधयतिकर्मकर्तरि कर्तरि विहितः प्रत्ययो न भवतीति । यद्येवम्, अनेनैव न्यायेन 'लूयते केदारः स्वयमेव' इत्यादौ कर्मकर्तरि परस्मैपदं न भविष्यति, किं "शेषात् कतरि"(३।२।४७) इत्यत्र एतद्व्यावृत्त्यर्थं कर्तृग्रहणेन ? तस्मात् कर्तृग्रहणस्य वैयर्थ्यभयात् परस्मैपदमेव कर्मकर्तरि न भवति,आत्मनेपदं तु भवत्येवेति कथन्न ज्ञाप्यते ? नैवम्, आम्नायविरुद्धस्य ज्ञापयितुमयोग्यत्वात् । तर्हि "शेषात् कर्तरि परस्मैपदम्" (३।२।४७) इत्यत्र कर्तृग्रहणं कथं चेत् तत्रैव व्याख्यास्याम इति दिक् ।
कृत्यक्तखलर्थेषु प्रतिषेधो न वक्तव्यः, तर्हि कथं कर्तव्यं कटेन स्वयमेव' इत्यत्र 'कर्तव्यः कटः स्वयमेव' इत्यपप्रयोगो न स्याद् इत्याशङ्क्याह - त्यादित्वादित्यादि । अयमर्थः- इदम् आख्यातप्रकरणम्, कुतः कृत्प्रकरणे प्राप्तिरिति भावः । यद्येवम्, कानानशोरतिदेशो न स्यात् । परमते तु लकारान्तस्य कार्यमतिदिश्यते, ततश्च तयोरपि परमते लकारान्तत्वं कृत्वा पठितत्वादतिदेशः प्राप्नोत्येव ? सत्यम्, पूर्वसूत्रे