________________
२६६
कातन्त्रव्याकरणम्
द्वितीया न भवतीति चेत् पर्यायेण स्यात् । कदाचिद् आत्मनेपदं कदाचिद् द्वितीयेति | ततश्च ‘ओदनं पचति स्वयमेव' इत्यपि प्रयोगः स्यात् । अत्र कर्मवद्भावादात्मनेपदं न, कर्मकर्तरि द्वितीयैव तस्य लिङ्गस्योक्तत्वात् ।
न च परत्वादात्मनेपदमेव स्यादिति वाच्यम् । अस्य सूत्रस्य कार्यातिदेशत्वादनेनैव कर्मकार्यं विधीयते । न ह्येकस्मिन् सूत्रे पौर्वापर्यसम्भवोऽस्ति । किञ्च कर्मकर्ता हि केदारस्तस्य कर्मकार्येऽतिदेष्टव्ये साक्षात् केदारादेर्यत् कार्य सम्भवति, तत्प्रत्यासत्त्या तदेवातिदेष्टव्यमिति द्वितीयैव स्यान्नात्मनेपदमिति ? सत्यम् । धातोरित्यधिकारोऽस्ति , ततश्च धातोः कर्मवत् कर्मकर्तेत्युक्ते धातोरेव कर्मकार्यं भवतीति पश्चाद् वक्ष्यति । एतदनुसन्धानेनैव कर्मवद्भावादात्मनेपदमिति वृत्तावुक्तम् । अत एव पञीकृतापि कर्मवद्भावात् पूर्वेण कर्मण्यात्मनेपदमित्युक्तम्, तत्तु कथं संगच्छते ? कार्यातिदेशत्वादनेनैव विधातुमुचितत्वात् । किञ्च, न ह्यत्र कर्मण्यात्मनेपदं विधीयते किन्तु कर्मकर्तर्येव, तस्मात् कर्मकर्तरीति वक्तुमुचितम् ?. सत्यम्, पूर्वेण कर्मणि यदात्मनेपदं तत् कर्मवद्भावादनेनैव कर्मकर्तरि विधीयते इति साध्याहारं व्याख्यातव्यम् । यद् वा पूर्वेणेति यदुक्तं तच्छास्त्रातिदेशमवलम्ब्योक्तम् । यच्च कर्मणीत्युक्तं तदपि कर्मकर्तुः कर्मवद्भावात् कर्मकर्तेव कर्मोच्यते । यथा चन्द्र इव मुखं चन्द्र इत्युच्यते । एवं कर्मणीति शेषः इति यदुक्तं तदपि संगच्छते । ननु यदि कर्मकर्तर्यात्मनेपदमेवेत्युच्यते, तदा कथं यणिचौ स्याताम, कर्मणि विहिते सार्वधातुकेऽसार्वधातुके च तयोर्विधानात् चेत्, न देश्यमेतत्, धातोः कर्मकार्येऽतिदेष्टव्ये यणिचोरपि विधानस्य प्राप्तेः । न हि यणिचौ विना केवलमात्मनेपदविधानादेव कर्मवत् कार्यमिति वक्तुं शक्यते, कर्मवदित्यनेन धातोः सकाशाद् यत् कार्यं तस्योक्तत्वात् । न हि सङ्कोचे प्रमाणमस्ति, अतः पनीकृतापि तस्मिंश्च सति यणिचौ प्रत्ययावपीत्युक्तम् ।
ननु वद्ग्रहणं किमर्थं चेद् वद्ग्रहणमन्तरेण कर्मकर्तुः कर्मसंज्ञापि स्यात् ? अथ संज्ञायां सत्यां किं दूषणं चेद यथा कटं करोति तथा केदारं लुनाति स्वयमेवेत्यपि प्रयोगः स्यात् ? नैवम्, तदा यत् क्रियते तत् कर्म इत्यतः पश्चादेव सूत्रमिदं कृतं स्यात् । ततश्च प्रथमकर्मग्रहणमपि खण्डितं स्यात्, तस्मात् तादृशमकृत्वा यदत्र धात्वधिकारो विधीयते तद् धातुकार्यमेव भविष्यति, न तु नामकार्यमिति । किं च परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेणापि वत्यर्थं गमयति । यथा 'सिंहो माणवकः' इति । तस्मात् किं वद्ग्रहणेनेत्याह-वत्करणमिति वृत्तिः । अत एव पत्रीकृतापि ‘अथ परार्थे प्रयुज्यमानः' इत्याधुक्तम्, तत्र चाथशब्दोऽथवार्थः । वृत्तिग्रन्थस्यायमर्थः (स्वस्य कर्मण आश्रयः) स्वाश्रयः कर्तृत्वम्, तदेवार्थः प्रयोजनमस्येति विग्रहः । एतेन किमायात