________________
तृतीये आध्याताध्याये बितीयः प्रत्ययपादः
२४९ प्रतिपाद्यते । यदाह भाष्यकारः- 'प्रकृतिप्रत्ययौ प्रत्ययावं सह ब्रूतः' इति । तस्मिंश्च ताभ्यां प्रतिपाद्येऽर्थे विकरणानामर्थान्तरानिवेशत्वात् साहाय्यमेवार्थः । स च नशब्देनैव कृतः इत्युक्तार्थत्वादन्विकरणो न भवतीत्याह - प्रकृतीत्यादि ।।४८६।
[क० च०]
स्वरात् । परो नशब्द इत्यत्रानशब्द इति नाशङ्कनीयम्, भिनत्तीति ज्ञापकाद् अकारलोपस्यादृष्टकल्पनापत्तेः । अथ परग्रहणं किमर्थं चेद् रुधादेः स्वरात् पूर्वं कथं न स्यात् ? नैवम्, 'पञ्चम्या निर्दिष्टे परस्य' (कात० परि० २२) इति न्यायात् पर एव भविष्यति चेत्, न । तस्य हि स्थितस्य परस्य यत् किञ्चित् कार्यं विधीयते तत्रैव तस्य विषय इति । "प्रत्ययः परः" (३।२।१) इत्यत्र टीकापञ्जीकृयामुक्तं चेत्, तथापि "प्रत्ययः परः" (३।२।१) इत्यनेनैव परत्वं भविष्यति । अथ विकरणस्य प्रत्ययत्वं नास्तीति चेत्, न । कप्रत्ययवत् प्रकृतिप्रत्ययार्थस्य साहाय्यकर्तृत्वात् । अत एव टीकायां सत्यपि नशब्दस्य प्रत्ययत्वेऽसार्वधातुकत्वात् तस्यादिरिडागमो न भवति । धातोर्विहितस्यासार्वधातुकस्यादिरिड् भवन् कथं धात्वेकदेशाद् विहितस्यादिरिड् भविष्यतीत्युक्तम् । किं च पूर्वं न भविष्यति यावता निमित्तव्यवधानमिति चेद् अवश्यं व्यवधानमाश्रयणीयम् । तथाहि भिनत्तीत्यादौ दकारेण व्यवधानता, वचनादेकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेनेति, तर्हि परग्रहणमुत्तरार्थम् । तेन तनादेः परः इति विशेषणात् स्वरात् इति न सम्बध्यते ।
यदि पुनस्तनादिरुधाद्योः स्वराधनशब्दाविति अकरणादेव परसूत्रे स्वरादिति न वर्तते, तदा किं स्यादिति चेद् उच्यते- परग्रहणं विनात्र स्वरान्ताद् धात्वन्तराद् रुधादेरपि न-शब्दः स्याद् इत्यपि शङ्का स्यात् । वररुचिस्तु परग्रहणमिहार्थमुत्तरार्थं चेत्याचष्टे- शब्दग्रहणं सस्वरार्थमिति । अथ रुधादेर्विकरणान्तस्य लोप इति ज्ञापकात् सस्वरो ज्ञाप्यते, किं शब्दग्रहणेनेति चेत्, व्यञ्जनेऽपि नकारे कृते विकरणान्तस्य लोप इत्युक्ते भिन्दतीत्यादौ दकारस्य लोपो भविष्यति चेद् भिनत्तीतिनिर्देशात् । तर्हि ज्ञापकेन किमिह प्रत्याख्यातुं न शक्यते । पनी-प्रकृतिप्रत्ययाविति । ननु कथमेतत्, यावता 'आख्यातं क्रियाप्रधानम्' इत्यस्त्येव ? सत्यम्, भाष्यकारमतमवलम्ब्योक्तम् । स्वमते आख्यातेऽपि प्रत्ययान्वितस्वार्थबोधकत्वमङ्गीकर्तव्यमिति संक्षेपः। विशेषस्तु धातुसूत्रे व्याख्यातोऽस्माभिरिति ।। ४८६।
[समीक्षा)
'रुधिर् आवरणे' (६।१) इत्यादि रुधादिगणपठित धातुओं से 'रुणद्धि, भिनत्ति' आदि प्रयोगों के सिद्ध्यर्थ पाणिनि ने 'श्नम्' विकरण तथा कातन्त्रकार