________________
२४२
कातन्त्रव्याकरणम्
[दु० वृ०]
दिवादेर्गणाद् यन् परो भवति स च विकरणसंज्ञकः, कर्तरि विहिते सार्वधातुके परे । दीव्यति, सीव्यति | "भ्राश – भ्लाश - भ्रमु-क्रमु - त्रसि - त्रुटि-लषि - यसि - संयसिभ्यश्च वा" | भ्राश्यते, भ्राशते । भ्राम्यति, भ्रम्यति, भ्रमति। भौवादिकोऽपि भ्रमिरस्तीति ।क्रम्यति, क्राम्यति, क्रामति । त्रस्यति, वसति त्रुट्यति, त्रुटति । लष्यति, लषति । यस्यति, यसति । संयस्यति, संयसति ।। ४८३।
[दु० टी०]
दिवा० । अनोऽपवादः । नकारः “शमादीनां दीर्घो यनि" (३।६।६६) इति विशेषणार्थः । सृजः ग्रहणश्रद्धोपनयनक्रियायामभिधानम् – सृज्यते मालां धार्मिकः । रन्जे: कर्मकर्तर्यभिधानम् - रज्यति वस्त्रं स्वयमेव । अन्यत्र रजति । एवं कुष्यति पादप: स्वयमेव । अन्यत्र कुष्णाति । कृषिर्दैवादिकः कर्मकर्तर्येव वर्तते, परस्मैपदिषु पाठात परस्मैपदम् । रन्जेस्तत्र वद्ग्रहणस्य स्वाश्रयार्थत्वादिति । भ्राशेत्यादि । भ्राशभ्लाशभ्रमुक्रमुलषामनि प्राप्ते त्रसियस्योर्नित्ये प्राप्ते यनि त्रुटेरपि तौदादिकत्वादनि प्राप्ते यन् वा विधीयते । 'टु भ्राज़ -टु भ्रास दीप्तौ' (११५४०) । रुचादित्वादात्मनेपदम् । 'भ्रम चलने' (१५५८), भौवादिकोऽयम्, शमादिष्वपाठान्न दीर्घः । 'भ्रमु अनवस्थाने' इत्यस्य देवादिकस्य रूपसिद्ध्यर्थमिहार्थभेदाद् ग्रहणम् । अथवा भौवादिकैः साहचर्याद् भौवादिकस्य ग्रहणं युक्तमिहेति । अनेकार्थत्वादनवस्थानेऽपि वर्तिष्यते, ततश्च रूपत्रयं सिद्धमेव । ‘क्रमुपादविक्षेपे'(१।१५७)क्रमेःशमादीनां दी| यनि । “ष्टिबुक्लम्वाचमामनि" (३।६।६७) इति ज्ञापकाद् अन् - यनौ - क्लामति, क्रामति, क्राम्यति । त्रसी उद्वेगे, त्रुट् छेदने, लष कान्तौ, यसु प्रयत्ने' (३।८; ५।९०; ११५९१; ३।५०) 'संयसः' इति नियमार्थं सम् - पूर्वदिव यसेर्नान्योपसर्गपूर्वकादिति आयस्यति, नित्यं यन् । तदेतन्न वक्तव्यम् । उभयगणपाठाङ्गीकाराद् वा सिद्धमिति । आचार्याणां मतेऽपि अधिकृतस्य वाग्रहणस्य बहुलार्थत्वाद् वा ।। ४८३।
[वि० प०]
दिवादेः । दीव्यति, सीव्यतीति "नामिनो वोः" (३।८।१४) इत्यादिना दीर्घः । भ्राशेत्यादि । अधिकृतस्य वाशब्दस्य बहुलार्थत्वाद् उभयगणपाठाङ्गीकरणाद् वा अन्यनाविति भावः । भौवादिको भ्रमिरस्तीति । 'भ्रमु अनवस्थाने' देवादिकः शमादौ पठ्यते । भ्रमु चलने भौवादिकः । अस्य शमादित्वाभावात् "शमादीनां दी| यनि" (३।६।६६) इति न दीर्घः । इति रूपत्रयं विशेषाभावादिह द्वयोरपि ग्रहणम् । अथ भौवादिक एव विकल्प्यताम्, एवमपि रूपत्रयं सिध्यत्येव ? तदयुक्तम्, चलनार्थस्य