________________
कातन्त्रव्याकरणम्
महान्तस्तु नानिष्टानां शास्त्रे प्रक्लृप्तिरित्याहुः । न च कृञ् चेति पञ्जी । ननु पृथग्वचनादिति कथमत्र हेतुः संगच्छते, यावता पृथग्वचनसामर्थ्यात् कर्तरि 'ईक्षाञ्चक्रे' इत्यात्मनेपदस्य स्थितिरपि भविष्यति । अकृते तु पृथग्योगे नित्यम् ईक्षाञ्चकार इति कर्तरि परस्मैपदादेशसन्नियोगशिष्टत्वात् कर्तर्येव कृञोऽनुप्रयोगः प्राप्नोति न तु कर्मणि । ततः कर्मण्यपि कृञोऽनुप्रयोगार्थं पृथग्वचनं सार्थकम् । तत्कथं पृथग्वचनात् कृञो निवृत्तिरिति ? सत्यम् । विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वाच्चकारस्य परस्मैपदादेशेन संबन्धः कर्तव्य एवेति हृदि कृत्वैव पजीकृता आदेशेन सह सम्बध्यते चकार इत्युक्तम्, अतो न पूर्वपक्षावसर इति । [ अनुग्रहणात् 'तत्पातयां प्रथममास' इति, ‘संयोजयां विधिवदास' इत्यत्र प्रथमशब्दविधिवच्छब्दाभ्यां व्यवधानेऽपि असनुप्रयोग इत्येके 'पातयां मास' इति च भिन्नपदम् इत्यपरे पातं यातीति पातयाशब्दः, एवमन्यत्रापि । इति क्वचित् पाठः]।।४७३।
[समीक्षा]
२१६
पूर्ववर्ती सूत्र - सं० ४७२ की समीक्षा द्रष्टव्य है [विशेष वचन ]
अन्वाचयशिष्टोऽयमादेशोऽर्थस्यान्तरतम्यात् । तेन ईक्षामासे, ईक्षाम्बुभूवे
१.
कन्या छात्रेण, ईहांव्यतिबभूवे छात्रः (दु० वृ० ) ।
२. आन्तरतम्यादिति कर्मणि, भावे व्यतिहारे च विहितस्यात्मनेपदस्य परस्मैपदं नातिदिश्यते इत्यर्थः । अथवा परस्मैपदं चानुप्रयुज्यते इति । आत्मनेपदं तु कीलप्रतिकीलन्यायेन निवृत्तं भवति यदा कर्तृत्वं नार्थस्तदा प्रधानवाक्यनिर्दिष्टावस्भुवौ भवतः एवेति भावः (दु० टी० ) ।
३. अत एवादेशेन सह सम्बध्यते चकारः, ततश्चादेशो ऽयमन्वाचयशिष्टः इत्यन्तरेणापि परस्मैपदादेशम् । अस्भुवौ प्रधानवाक्यनिर्दिष्टौ भवत एवेति भावः (वि० प० ) ।
४. महान्तस्तु नानिष्टानां शास्त्रे प्रक्लृप्तिरित्याहुः (क० च० ) ।
५. विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वाच्चकारस्य परस्मैपदादेशेन सम्बन्धः कर्तव्य एवेति हृदि कृत्वैव पञ्जीकृतादेशेन सह संबध्यते चकारः इत्युक्तम् (क० च० ) ।
[ रूपसिद्धि ]
१. ईक्षामास । ईक्ष् + आम् + अस् + ए - अट् । 'ईक्ष दर्शने' (१।४३२) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष एकवचन ए-प्रत्यय, "नाम्यादेर्गुरुमतोऽनृच्छः”