________________
२१४
कातन्त्रव्याकरणम्
४६९ तथा 'चकासाञ्चकार - कासाञ्चक्रे' की रूपसिद्धि के लिए सूत्र ४६७ की समीक्षा द्रष्टव्य है ।। ४७२।
४७३. असभुवौ च परस्मै [३।२।२३] [सूत्रार्थ]
आमप्रत्ययान्त धातु से परोक्षा विभक्ति के परवर्ती होने पर 'अस्-भू' धातुओं का अनुप्रयोग होता है ।। ४७३।
[दु० वृ०].
आमन्तस्य धातोरस्भुवावनुप्रयुज्येते परोक्षायां परभूतायाम् । परस्मैपदं चातिदिश्यते । ईक्षामास, ईक्षाम्बभूव, चकासामास, चकासाम्बभूव । अन्वाचयशिष्टोऽयमादेशोऽर्थस्यान्तरतम्यात् । तेन ईक्षामासे, ईक्षाम्बुभूवे कन्या छात्रेण । ईहांव्यतिबभूवे छात्रः । अस्ते न स्यात्, विधानबलात् । प्रकृतेः श्रुतश्चकारः आदेशेन सह सम्बध्यते । विद् + आम् + कृञनुप्रयोगः, पञ्चम्यां वा- विदाङ्करोतु, विदांकरवाणि । वेत्तु, वेदानि ।।४७३।
[दु० टी०
अस्भु० । आन्तरतम्यादिति भावे कर्मणि व्यतिहारे च विहितस्यात्मनेपदस्य परस्मैपदं नातिदिश्यते इत्यर्थः । अथवा परस्मैपदं चानुप्रयुज्यते इति । आत्मनेपदं तु कीलप्रतिकीलन्यायेन निवृत्तं भवति, यदा कर्तृत्वं नार्थस्तदा प्रधानवाक्यनिर्दिष्टौ अस्भुवौ भवत एवेति भावः । ननु परोक्षायाम् आम् आदिश्यताम्, भीहीभूहुवान्तिवद्भावान्न द्विवचनम्, आमन्तस्याव्यक्तपदार्थत्वात् क्रियाकालसाधनपुरुषोपसंख्याग्रहणाभिव्यक्तये परोक्षान्तेनैवानुप्रयोगो भविष्यति स च सामर्थ्यात् कृभ्वस्तीनामेव सामान्यवचनत्वात् । न च पचादीनां विशेषार्थानामसंबन्धात् । न स समानार्थानां जागराम् - जजागार' इति भवति उक्तार्थत्वात् । क्रियासामान्यवचनास्तु कृथ्वस्तयः क्रियाविशेषाणां सन्निधौ तद्व्याप्यैव क्रियाविशेषेऽवतिष्ठन्ते इति ? सत्यम् । विद्यतेरपि सामान्य-वचनस्यानुप्रयोगो मा भूदिति कृभ्वस्तिग्रहणं व्यवहितविपर्ययनिवृत्त्यर्थं च, पाचयां देवदत्तौ बभूव, बभूव पाचयामिति अस्ते भावो बाधितो भवति वचनात् ।
अन्य आह- परोक्षान्तस्य विद्यते लाभाद्यर्थेन सह रूपस्याविशेषात् प्राकरणिकी सामान्यार्थता भवति । तथा अस्यतेरपि परोक्षान्तस्य सत्तायां वृत्तिर्दृश्यते ! यथा लावण्य उत्पाद्य इवास यत्नः' इति आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य पदं भवत्येव सादृश्यार्थत्वाद् अनुप्रयोगस्यास्भुवौ परस्मैपदान्तौ अनुप्रयोगव्यपदेशेऽपि गौणत्वमस्तीति