________________
१७८
कातन्त्रव्याकरणम्
३. यथा प्रत्ययार्थविशेषणे प्रधानाप्रधानन्यायस्तद्वदिहापि । कथमन्यथा कर्तृभेदः, यदि क्रियाभेदो नास्तीति । यस्य यत्नोऽस्ति स प्रधानकर्ता अन्यश्चाप्रधानम् इति (दु० टी०)।
४. लोके फलसाधनयोग्यः पदार्थो हेतुरुच्यते । शास्त्रे च “कारयति यः स हेतुश्च" (२।४।१५) इति (वि० प०)।
५. क्रियाभावो हि धातुः, क्रिया च साध्यरूपा । यच्च साध्यम्, तद् हेतमन्तरेण न संभवतीति । सर्वैव क्रिया हेतुमती, ततो हेतुग्रहणेन किमिह व्यवच्छिद्यते, चुरादेश्चेति वचनाच्च (वि० प०)।
६. ननु भिक्षादीनामचेतनत्वात् प्रयोजकत्वं नास्ति । तत् कथमत्र इन् प्रत्यय इत्याह - तथेत्यादि । न हि स एव वस्तुं प्रयुङ्क्ते य आह – उष्यतामिति। किन्तर्हि तूष्णीं व्यवतिष्ठमानोऽपि यस्तथा प्रतिपादयति, सोऽपि वस्तुं प्रयुङ्क्ते एवेति । न खल्वसौ मौनी वसेति वचनमनुच्चारयन् वसनक्रियानुकूलं च पीठादिकं प्रयच्छन् प्रयोजको न भवतीति । तस्माच्चेतनत्वमकिञ्चित्करमेव । भिक्षा च प्रचुरतरव्यञ्जनवती लभ्यमाना वासानुकूलं तृप्तिविशेषमादधाना कथन्न प्रयोजिकेति (वि० प०)।
७. यत एवमसौ दैवज्ञः पुष्येण चन्द्रस्य योगं जानाति (गणयति), तेनैव लोकस्य प्रतीतिः- पुष्येण चन्द्रोऽनेन योजित इति । तथा च लोकव्यवहारः (वि० प०)।
८. अथ विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाद् व्यधिकरणतयार्थः पर्यवस्यति (क० च०)।
९. चकारात् प्रयोगानुसारेणान्यत्रापि स्वार्थे इन् भवति । तथाहि - ‘दशवर्षसहस्राणि रामो राज्यमकारयत्' इति । तथा च ‘दशास्यं घातयित्वा तु रामो यास्यति मन्दिरम्' इति वररुचिः । अन्ये तु 'हन्त्यर्थाश्च' इत्यत्र चकाराद् गणान्तरपठिता अपि धातवश्चुरादौ वेदितव्या इत्याहुः (क० च०)।
[रूपसिद्धि]
१. कारयति । कुर्वन्तं प्रयुङ्क्ते । कृ + इन् + अन् + ति । 'डु कृञ् करणे' (७।७) धातु से हेत्वर्थ में प्रकृत सूत्र द्वारा इन् प्रत्यय, न् अनुबन्ध का प्रयोगाभाव, “अस्योपधाया वृद्धि मिनामिनिचट्सु" (३।६।५) से ऋ को वृद्धि आर्, "ते धातवः'' (३।२।१६) से 'कारि' की धातु संज्ञा, "इयजादेरुभयम्" (३।२।४५) से परस्मैपदसंज्ञक प्रथमपुरुष – एकवचन 'ति' प्रत्यय, “अन् विकरण :