________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१५१ क्रियया सम्बन्धो भवन् कर्तुरपि स्यात् । पितेवाचरत्युपाध्यायः शिष्यमिति ? नैवम्, अपेक्षितकर्मकत्वात् । तर्हि कर्मणोऽपि कथं बहिरङ्गापेक्षणात् ? सत्यम् । यस्यां वृत्तावव्यवहिते कर्तृकर्मणी तत्र प्रत्ययः इति । अर्थात् पूर्वं कर्म इति प्रकृतिः प्रत्ययवाच्यः कर्ता इति न दुष्यति, अभिधानाद् व्यवस्थितवाधिकाराच्चेति । पुत्रे यदाचरणं मिष्टान्नपानदानादि प्रसिद्धं तदाचरणेन माणवक उपमीयते । वृत्तौ तु यिनैव द्योतितत्वादिवशब्दो निवर्तते उपमानवचनात् पुत्रशब्दात् तद्विशिष्टाचरणे यिनो विधानादुपमानोपमेयभावस्य निवृत्तत्वाच्च । निवृत्तेऽपीवशब्देनोपमेयपुत्रशब्दस्य वृत्तिरुपमेयेन सकर्मकत्वमित्याह – माणवकादित्यादि । अन्यथा श्येन इवाचरति श्येनायते इति उपमेयकर्तसामान्यस्यानेनाभिधानं स्यात् । आधारोऽपि कर्मतया विवक्ष्यते चेद् अनुप्रयोगे कुट्यामिति सप्तमी न स्याद् अतः कर्मण आधारविवक्षा साध्यसाधनभावस्येष्टत्वादित्याह – आधारादित्यादि । पुत्रेणेवाचरति भवतेति करणान्न भवति । नहि कर्मान्तरेण करणत्वमुपपद्यते इति सापेक्षता | नकारो "यिन्यवर्णस्य" (३।४।७८) इति विशेषणार्थः । इकार उच्चारणार्थः ।।४५७।।
[वि०प०]
उप० । माणवकादित्यादि । पुत्रमिवाचरतीति वाक्ये सामान्यमेवोपमेयं कर्म प्रतीयते न तु विशिष्टम्, अतो विशिष्टकर्मद्योतिका द्वितीया कथमुक्तार्थेति भावः । न चोपमानादुपमेयकर्मविशेषापेक्षया यिनो विधिरस्तीति । पुत्रमिवाचरति माणवकमिति सापेक्षत्वाद् आधारादित्यादि । न खल्विह कर्माधिकारोऽस्ति किन्तु सापेक्षत्वात् करणादेर्न भवतीत्युक्तम् । यत्र तु निरपेक्षता तत्राधारादपि केन निवार्यते । अथवा आधारस्यापि कर्मत्वं विवक्ष्यते - कुटीमिवाचरतीति । कथन्तर्हि प्रासादे इत्यनुप्रयोगे सप्तमीति चेत् तदा आधारस्यापि विवक्षितत्वमिति ।।४५७।
[क० च०]
उपमा० । प्रसिद्धस्य साधाद् अप्रसिद्धस्य साधनम् उपमानमित्युपमानलक्षणम् । अथ उपमितिरुपमानमिति भावलक्षणस्य ग्रहणम् । उपमीयते येन यद् वा तदुपमानमिति करणसाधनस्य कर्मसाधनस्य वा ग्रहणम् ? न तावद् भावसाधनस्य ग्रहणम् उपमितेरित्यकरणात् । नापि कर्मसाधनस्य, तत्रोपमानशब्दस्योपमेये प्रसिद्धत्वात् । तस्मात् करणसाधनस्य ग्रहणम् आम्नायात् । आचरणमाचारः । स चात्र मननस्वरूपः, अत एवास्य सकर्मकत्वम् । तेन पुत्रीयति छात्रमित्यादौ पुत्रमिवाचरति छात्रमित्यर्थः । उत्तरसूत्रे तु चेष्टावचन एवायं धातुस्तेनाकर्मक एव, अत्राभिधानमेव नियामकम् । ननु पुत्रमिवाचरतीति पुत्रशब्दात् कथं द्वितीया । यावता इवशब्दस्य