________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१४९ टीका लिखितास्तीति । सैव व्याख्यायते - काम्येत्यविभक्तिनिर्देश इति । एतेन काम्यप्रत्ययोऽकारान्तः सूचितः इति अकारस्य फलमग्रे व्याख्यास्यते ।
ननु वृत्तौ चकाराद् यिश्चेत्युक्तं ततश्चानुकृष्टं नोत्तरत्रेति न्यायादुत्तरसूत्रे यिनो निवृत्तिः स्यादित्याशङ्क्याह - यिन् काम्य चेत्यादि । तर्हि चकाराद् यिंश्चेति वृत्तिः कथं संगच्छते ? सत्यम् । एवमुच्यते – चकाराद् विना काम्य इति सूत्रे कृते 'कार्य कार्येण हन्यते' (कलाप० २२०।२५) इति न्यायाद् यिनोऽनुवृत्तिर्न स्यात् । काम्य चेति कृते तु न केवलं यिन् काम्य चेत्यर्थो लभ्यते । अतः काम्यसम्बन्धोऽपि चकारो यिनोऽनुवृत्तावपि हेतुरित्याशयेनोक्तम् – चकाराद् यिंश्चेति । यदि पुनश्चकारेण सह यिन् संबध्यते तदा चकार एव व्यर्थः स्यात्, न ह्यत्र सूत्रे यिनः प्रयोजनमिति पूर्वसूत्रेणैव सिद्धः स्यात् । नापि परसूत्रे प्रयोजनं चानुकृष्टत्वात् तत्रानुवृत्तेरभावात् । तस्माच्चकारबलादेव काम्येनैव संबन्धो न तु यिनेति । अत एवेत्युत्तरत्र यिनोऽनुवृत्तिहेतोरित्यर्थः । इष्टं चेत्यादि । न केवलमुत्तरत्र उभयोरनुवृत्त्यर्थमेव भिन्नयोगः । किन्तु इदंकाम्यतीत्यस्य सिद्ध्यर्थमेवेति । अन्यथा एकयोगे सति सन्नियोगशिष्टत्वाद् यथा मान्ताव्ययाभ्यां यिन् न स्यात तथा आभ्यामपि काम्यप्रत्ययोऽपि न भवेत् । इदं तु कुव्याख्यानम् । यतो मान्ताव्ययभिन्नस्थाने यिनो विधानं व्यवस्थितवाऽधिकाराद् एतच्चैकयोगेऽपि संभवतीति भावः । तस्मादयमेव पङ्क्तेराशयः- पाणिनिना यिनः स्थाने क्यच् विहितः, आयिप्रत्ययस्थाने क्यङ्, अतोऽकारान्तोऽयम् प्रत्ययस्तेन धनमिच्छतीति तमन्यः प्रयुङ्क्ते स्म इत्यर्थे अदधनीयद्-इत्यादिषु सन्वद्भावह्रस्वौ न भवतः, अतोऽस्मन्मते व्यञ्जनान्तादेव काम्यशब्दात् सेर्लोपः अभिन्नं चेति पदम्, अव्ययस्यानेकार्थत्वाद् यिन्प्रत्ययेनापि संबध्यते चकारः, तदन्तविधिना अशब्दः अकारान्तवाचकः, तेन काम्य यिंश्चादन्तो भवतीति प्रश्लेषव्याख्यानाद् इष्टसिद्धिरिति । तथा यिन्काम्यप्रत्ययस्यादन्तत्वे सति अपुपुत्रकामदित्यादौ "यिन्यसमान०" (३।४।७८) इत्यादिना न ह्रस्वादिकमिति । विपर्यय इति । नाम्नः आत्मेच्छायां काम्य इत्येकं सूत्रम्, यिनित्यपरम्, ततश्चकारः प्रत्याख्यातुं शक्यते एव । यदिह विचित्रा हि सूत्रस्य कृतिस्तत्प्रश्लेषकरणभूतेन बोधं जनयतीति यिनोऽप्यकारान्तत्वं बोध्यमिति पङ्क्तिसङ्गतिः । एवमग्रिमसूत्रद्वयेऽपि अदन्तश्चेति संबन्धनीयम् । न च पाणिनिना विरोधः, अत एव “यस्याननि" (३।६।४८) इत्यस्य टीकायाम् “आत्मेच्छायां यिन्, कर्तुरायिः सलोपश्च" (३।२।५,८) इति अकार : पठितव्यः इति यदुक्तं तत्रापि एषैव युक्तिः ।।४५६।
[समीक्षा] 'आत्मनः पुत्रमिच्छति' इस अर्थ में 'पुत्रकाम्यति' जैसे शब्दों के साधनार्थ