________________
कातन्त्रव्याकरणम्
१४६
सति श्रुतस्यैव नाम्नः इच्छाक्रियाभिसंबन्धात् कर्तृवाचिनोऽपि नाम्नो यिन् स्यात् - देवदत्त इच्छतीति । आत्मग्रहणे तु आत्मन इति कर्तरि षष्ठी, कर्तृत्वं च सन्निधानादिच्छाक्रियाया एव तेनात्मना कर्त्रा नाम्न इष्यमाणात् कर्मण इत्यर्थः सिद्धो भवति । भ्रातुरित्यादि ।
1
नन्वात्मनः पुत्रमिच्छतीत्यत्रापि सापेक्षत्वाद् यदि यिन्प्रत्ययो न स्यात् तदा पुत्रस्य कथम् आत्मीयत्वावगमः ? सत्यम् । आत्मविषयैव लोकस्येच्छा न परविषया, सा च तद्वाचिशब्दप्रयोगमन्तरेणापि प्रतीयते । अथ दुःखमिच्छति, अघमिच्छतीति कथं यन्न भवति, न ह्यत्र किञ्चिदपेक्षते ? सत्यम् । इहापि सापेक्षत्वमस्त्येव । न हि कश्चिद् आत्मनो दुःखमिच्छति । अर्थात् परस्यैवेत्यपेक्षते इत्यदोषः । आत्मन इति कर्तरि षष्ठी | नाम्नश्चेष्यमाणात् कर्मण इत्युक्तमेवेत्याह- इच्छयेत्यादि । अथवा दात्रेणेच्छतीति व्रीहींश्छेत्तुमिति कर्मपदमिहापेक्षते । अतः सापेक्षत्वादसामर्थ्यमिति पक्षान्तरं दर्शयति - सापेक्षं वेति || ४५५
[ क० च० ]
नाम्नः । ननु “ सुपः कर्मणः क्यच् ” ( ३।१।८) इति परसूत्रम्, तदभावेऽस्मन्मते करणादपि कथन्न स्यादित्याह - इच्छया नाम्न इत्यादि वृत्तिः । एतेनेच्छायाः सकर्मकत्वात् कर्माकाङ्क्षायां यस्मान्नाम्नो यिन् विधातव्यस्तस्यैव कर्मत्वं बोध्यम् । तेनेष्यमाणान्नाम्नो यिन् प्रत्ययो भवतीत्यर्थो लब्धः । ननु यदि इच्छया नाम्नः संबन्ध इत्युच्यते तथा कथमात्मेच्छा इत्यत्र समासः स्यात् । नाम्नः सापेक्षत्वेनात्मशब्देन सहेच्छाशब्दस्यासम्बन्धात् ? सत्यम्, अभिधानात् क्वचिदसम्बन्धेऽपि समासः । यथा 'असूर्यम्पश्या राजदारा:' इति । सापेक्षं वेति पक्षान्तरमिति टीका । पञ्जी - यद्यपि 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यात्मशब्दो नानार्थः । तथापीह ब्रह्मवर्ष्मणोरेव ग्रहणं संभवतीत्याह - आत्मशब्द इत्यादि । अन्तः अन्तरे व्यापारः कार्यं सुखादिकं यस्य स तथा, पश्चात् पुरुषशब्देन कर्मधारयः । परप्रतियोगी शरीरलक्षण: । अथ शरीरमात्रेच्छा न सम्भवति मृतशरीरे व्यभिचाराच्चेद् अत्रापि आत्मविशिष्ट इति विशेषणं देयम् । सुखार्थमिति । अथ दुःखमेव किमित्याशयेन विवृणोति - अन्यथेति । यद्यात्मग्रहणं सुखार्थं न क्रियते इत्यर्थः । अथ देवदत्त इच्छतीत्यत्र यिनोऽप्रवृत्तिरेवात्मग्रहणस्य फलम् । तदा कथं सुखार्थमिति चेदिदमुच्यते, तदा सापेक्षत्वादेव कर्तृभूतान्नाम्नः कर्मणोऽपेक्षया न भविष्यतीति सिद्धान्तो देयः । ननु यिन्विधौ युक्तार्थस्य
1