________________
भूमिका [नियमार्थम् - १] २४. यसिपाठेनैव सिद्धे संयसिपाठो नियमार्थः (वि० प० ३।२।३३)। [परमतदर्शनार्थम् - १] २५. 'आयादयः' इत्यादिग्रहणं परमतदर्शनार्थम् (वि० प० ३।२।१५)। [पूर्वाचार्यमतदर्शनार्थम् - १] २६. चेक्रीयितग्रहणं पूर्वाचार्यसंज्ञाविर्भावनार्थम् (दु० टी० ३।२।१४)। [प्रतिपत्तिगौरवनिरासार्थम् - ४] २७. तस्मादनप्रयोगविधानं प्रतिपत्तिगौरवनिरासार्थमेव (दु० टी०३।२।२३)।
२८. कर्मकर्तृत्वप्रतीतिरर्थाद् भविष्यति किं सूत्रेण ? सत्यम्, प्रतिपत्तिगौरवनिरासार्थम् (क० च० ३।२।४१)।
२९. किञ्च ऋकारे चेति यद् वचनम्, तदेवात्रान्तसंयोगबाधकं भविष्यति ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमिति (बि० टी० ३।३।२१)।
३०. इह सन्नियोगशिष्टस्य कुतःप्राप्तिरिति ? सत्यम् ।प्रतिपत्तिगौरवनिरासार्थमेव (दु० टी० ३।३।३८)।
[प्रतिपत्तिलाघवार्थम्-१]
३१. तथापि प्रतिपत्तिलाघवमिष्टमिति सारसमुच्चयकृता उक्तम् (क० च० ३।२।४६)।
[प्रतिपत्त्यर्थम-२] ३२. केवलं व्यामिश्रप्रतिपत्त्यर्थं श्वःशब्दोच्चारणम् (वि० प० ३।१।१६)।
३३. पुनः कर्तरीति शेषात् कर्तरीति प्रतिपत्त्यर्थं कर्तेव यत्र कर्ता यथा स्यात् (दु० टी० ३।२।४७)
[प्राचीनप्रयोगदर्शनार्थम् - १] ३४. 'तृष्णां छिन्धि' इत्यादिप्राचीनप्रयोगदर्शनार्थम् (क० च० ३।१।१८)। [बाधकबाधनार्थम् - १]
३५. अथ भविष्यद्ग्रहणं बाधकबाधनार्थमवश्यमङ्गीकर्तव्यम् (क० च० ३।१।१६)।
[बालावबोधार्थम् - २] ३६. 'आत्मने प्रथमैकवचने' इति बालावबोधार्थं वा (दु० टी० ३।२।३०)।
३७. अत्र पूर्वं वाक्यं बालकव्युत्पादनार्थमेव कैश्चिदुपादीयते (दु० टी० ३।२।४१)।