________________
१३४
कातन्त्रव्याकरणम्
अनुदात्तानुबन्धप्रतिज्ञानसमार्थ्यात् समुदायादात्मनेपदम् अवयवे वा कृतं लिङ्गं समुदायविशेषकम् अवयवे कार्याभावात् ।
अन्य आह - निशाने तिज एवात्मनेपदं दृश्यते, तदा तेजते इति चरितार्थत्वात् कथं लिङ्गम् ? सत्यम् , क्षमायां चानुदात्तानुबन्धलिङ्गसामर्थ्यादिति भावः । कथं 'जुगुप्स' इति समुदायं योऽवयवो न व्यभिचरति तत्र लिङ्गमिदं व्यभिचरति । गो : सक्थनि कर्णे वा कृतं लिङ्ग समुदायस्य विशेषकं न गोमण्डलस्येति ।। ४५३ ।
[वि० प०]
मान० । अभ्यासस्येत इति । “सन्यवर्णस्य" (३।३।२६) इतीत्त्वे सतीकारो विद्यत इति भावः । बीभत्सते इति । "तृतीयादेघढभान्तस्य०"(३।६।१००) इत्यादिना बकारस्य भकारः । ननु कथम् अभ्यासस्येत इत्युक्तम्, यावता अपवादत्वादवर्णावस्थायामेव दी? भवितुमर्हतीत्याह - अभ्यासस्येत्यादि । अयं चार्थो "दीर्घोऽनागमस्य" (३।३।२९) इत्यत्रानागमग्रहणेन ज्ञापयिष्यते । दानशान्भ्यां सनो विभाषा न विहितेति दर्शयन्नाह - कथमित्यादि । 'दो अवखण्डने' (३।२२), 'शो तनूकरणे' (३।१९), आभ्यां "कृत्ययुटोऽन्यत्रापि" (४।५।९२) इति कर्तरि वचनाद् युट् । अनेकार्थत्वाद् धातूनामर्थभेदोऽपि न विद्यते । चौरादिकेन मान इति, चुरादाविनन्तात् "स्वरवृद्ध०" (४।५।४१) इत्यादिना अल् | कथमेतद् यावता सामान्यनिर्देशाच्चौरादिकादपि सन् स्यात् । न च वक्तव्यम् इनन्तोऽसावनिनन्तश्चेह निर्दिष्ट इति । यस्माद् घुषिर् विशब्दने इति विशब्दनप्रतिषेधाद् विकल्पेनन्ताश्चुरादयः इति वक्ष्यति, ततोऽनिनन्तपक्षे स्यादेव ? सत्यम् । तथापि भौवादिकैर्वधादिभिः साहचर्याद् भौवादिकस्यैव मानो ग्रहणमिति । दानित्यादि । विशेषास्तु गुप्तिज्मान्वध आत्मनेपदिन इत्यर्थादुक्तम् । ननु कथमात्मनेपदं भविष्यति तद्धि पूर्ववत् सनन्तादित्यनेन सम्भवति, न च तस्यात्र व्यापारोऽस्ति नित्यं सनन्तत्वेन सनः पूर्वमात्मनेपदस्यादर्शनात् । एवं तर्हि अनुदात्तानुबन्धप्रतिज्ञासामर्थ्येन रुचादित्वात् सना व्यवधानेऽप्यात्मनेपदं भविष्यति, अन्यथा अमीषां गुपादीनामनुदात्तानुबन्धः प्रतिज्ञातोऽनर्थकः स्यादिति भावः ।। ४५३ ।
[क० च०]
मान० । उत्तरसूत्रे वाशब्दस्य सन्विधिमपेक्ष्य व्यवस्थितविभाषाङ्गीक्रियते, तेन दानशान्भ्यां दाननिशानयोः पक्षेऽचप्रत्ययोऽपीति पाणिन्यनुसारिणो वदन्ति, तदिह न वाच्यम् इत्याशयेनाह – कथमिति वृत्तिः । परस्तु भौवादिकात्मनेपदिनः पूजा