________________
१३३
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः ४५३. मानवधुदानशान्भ्यो दीर्घश्चाभ्यासस्य [३।२।३ ] [ सूत्रार्थ ]
मान्, वध् , दान तथा शान धातुओं से स्वार्थ में सन् प्रत्यय तथा अभ्यासगत इकार को दीर्घ आदेश होता है ।। ४५३।
[दु० वृ०]
मानादिभ्यः सन् परो भवति स्वार्थे, दीर्घश्चैषामभ्यासस्येतो भवति । मीमांसते, बीभत्सते, दीदांसते, शीशांसते । अभ्यासविकारेष्वपवादो नोत्सर्गं बाधते । कथम् अवदानम्, निशानम् इति ? द्यते : स्यतेश्च युटा सिद्धम् । चौरादिकेन - मानः, मानयति । दान्–शान् उभयम्, कित् परस्मै ।। ४५३ ।
[दु० टी०]
मान० | मान पूजायाम् (१।४६९), वध बन्धने (९।१५), दान अवखण्डने (१।६०१), शान तेजने (१।६०२) । ननु स्वरस्य दीर्घोऽयम्, अभ्यासस्यावशेषे सति कथमित्त्वं न बाधते, दीर्घत्वे च कृते “सन्यवर्णस्य" (३।३।२६) इतीत्त्वं नास्ति । 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते' (का० परि० ४७) इति न्यायादित्याह – अभ्यासस्येत्यादि । तथा चैनमर्थं ज्ञापयितुमन्नागमस्येति वक्ष्यति 'वनीवच्यते' इत्यादौ न्वागमे कृते कुतो दीर्घप्रसङ्गोऽन्तस्याभावात् । कथमित्यादि । अवदानादिपदसिद्धये दानशानोर्युटि सन् वा न विहितः इति चोदयन् परिहारमाह - द्यतेरित्यादि । 'दो अवखण्डने, शो तनूकरणे (३।२२,१९) आभ्यामन्यत्रापीति कर्तरि युट् । न चार्थभेदोऽनेकार्थत्वाद् धातूनामिति । चौरादिकेनेति | मानो जिज्ञासायामेव सन् सिद्ध: । मान पूजायामिति चुरादौ परस्मैपदी, ततोऽल्, घुषिर् विशब्दने इति विशब्दनप्रतिषेधेनानित्यत्वज्ञापनादिन् वास्ति ? सत्यम्, वधादिसाहचर्याद् भौवादिकस्य मान इह ग्रहणम्, तस्मान्मानवधदानशान्भ्यो जिज्ञासावैरूप्यार्जवनिशानेष्विति न वक्तव्यम्, यतोऽभिधानव्यवस्थाप्युक्तैव । मानवधदानशान्भ्यः इत ईच्चेति कथं न कुर्यात् ? श्रुतत्वाद् एषाम् अभ्यासेकारस्यैव ईकार इत्यवसीयते, सन उत्पत्तिसन्नियोगेन नास्ति वचनात् क्रम एव । अथोत्तरत्र पिपतिषतीति इटो दीर्घः स्यात् श्रुतस्य सन इकार इति सिद्धान्तेऽपि कथं चिचीषति, चुकोषिषतीत्यत्र दीर्घश्चाभ्यासस्य न भवति ? नैवम्, तुमन्तस्य धातोरभ्यासस्येति सम्बन्धो नोपपद्यते । दान्शानुभयं कित् परस्मै इति दान्-शान् उभयपदी, कित् परस्मैपदीत्यर्थः । शेषा गुप्तिज्मान्वध आत्मनेपदिन इति । न चैतेभ्यः प्राक् सनः आत्मनेपदं दृश्यते ।