________________
कातन्त्रव्याकरणम् सिद्धत्वाद् उताप्योः समर्थयोर्नित्यं सप्तमीति न वक्तव्यम् । समर्थयोरिति बाढार्थयोरित्यर्थः । ततः कुर्यात्, अपि कुर्यात् । बाढं करिष्यतीत्यर्थ: । नन्वित्यादि । जीवतु भवान् इति प्रार्थनप्रकार एवायम् । यदाह चन्द्रगोमी - प्रार्थनं याचनमिष्टाशंसनं चेति । प्रार्थने विध्यादिलक्षणेनैवास्ति पञ्चमी, तत् किमिहाशिषि तस्या विधानेनेति पूर्वपक्षार्थः । उत्तरवादी तु मन्यते युक्तमिदं किन्तु परापि विध्यादिलक्षणा पञ्चमी आशिषि विधानात् तदपवांदभूतयाशिषा विभक्त्या बाध्यते सा बाधितापि यथा स्यादिति पुनराशिषि पञ्चमी विधीयते ।। ४३५।
[क० च०]
सम० । परैरित्यादि वृत्तिः । परैरशक्यस्य वस्तुनः क्रियारूपस्य कर्तव्यत्वेनावसायः समर्थनेत्यर्थः । अस्यार्थ इत्यादि । क्रियासु योग्यताध्यवसाने इति, दुष्करक्रियासु सामर्थ्यप्रकटने चेद् यदि अलं सामर्थ्यवाचकः शब्दः सिद्धाप्रयोगो भवति तदा सप्तमीति वाक्यार्थः । सिद्धाप्रयोगः इति । सिद्ध ः अप्रयोगः प्रयोगाभावो यस्येति विग्रहः । अलमिति किमिति । ननु यदि सूत्रे अलंशब्दः खण्ड्यते तदा कस्य वस्तुनः सिद्धाप्रयोग इति । न च यस्य कस्यचिदप्रयोग इति वाच्यम्, सर्वत्रैव यस्य कस्यचित् सिद्धाप्रयोगत्वेन व्यावृत्तेरभावात् ? सत्यम्, तदोपस्थितस्य संभावनावाचकस्य सिद्धाप्रयोग इति प्रतिपत्तव्यम् । अत एव विदेशस्थायी प्रायेणागमिष्यतीत्यत्र संभावनावाचकोऽपि शब्दादिर्न प्रयुक्त इति । अलमिति इतिशब्दस्य विवक्षितार्थत्वाद् अलंशब्दयोगेऽपि क्वचिद् भवतीति । यथा अलं देवदत्तो हस्तिनं हन्यादिति वररुचिः | प्रयोगतश्चेति सिद्धमित्युक्तमिति । ननु कथमिदं संगच्छते, यावता प्रयोगतश्चेत्यत्र तासामित्यनुवर्तते तस्य च पूर्ववस्तुपरामर्शित्वेन कथं तेन सूत्रेण सप्तमी विधीयताम्, न चेह सप्तम्या : कालविशेषोऽस्ति ? सत्यम्, इह सूत्रे यश्चकारः सः उत्तरार्थस्तेन विध्यादिषु चेत्युक्ते प्रयोगतः प्रयोगानुसारेण सप्तमी पञ्चमी चेति वाक्यार्थो गम्यते, ततश्च वृत्तौ प्रयोगतश्चेत्यस्य प्रयोगानुसारादिति बोध्यम् ।।४३५ ।
[समीक्षा]
पाणिनि ने आशी: अर्थ में लिङ्- लोट् का तथा शक्नोति = समर्थना अर्थ में लिङ् लकार का प्रयोग किया है – “आशिषि लिङ्लोटौ, शकि लिङ् च" (अ० ३।३।१७३, १७२) । कातन्त्रकार ने समर्थना अर्थ में जो पञ्चमी विभक्ति का प्रयोग किया है उसके विषय में व्याख्याकारों का स्पष्टीकरण है कि शर्ववर्मा