________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
शिषोश्च वर्तमानाद्धातोः पञ्चमी भवति । पर्वतमप्युत्पाटयानि, समुद्रमपि शोषयाणीति । कश्चिदाह - समुद्रः शोषयितुमशक्यः, स आह - समुद्रमपि शोषयाणीति समर्थयति मतमस्य । आशिषि च - जीवतु भवान्, नन्दतु भवान् । अपि शिरसा पर्वतं भिन्द्यात्, अपि सिञ्चेन्मूलसहस्रम् इति विधौ सप्तमी । अपिशब्दोऽत्र संभावने वर्तते । प्रयोगतश्चेति सिद्धम् । ननु इष्टार्थस्याशंसनमपि प्रार्थनमेव ? सत्यम् । आशीर्विभक्त्या बाधिता पञ्चमी यथा स्यादिति वचनम् || ४३५ |
T
८९
[दु० टी० ]
राम० | अन्ये तु समर्थने पञ्चमीं नेच्छन्तीत्याह - मतमस्येति - दृष्टाद्यव्याकरणत्वात् | सिद्धाप्रयोगे समर्थार्थी संभावने सप्तमीष्यते । सिद्धाप्रयोग इति किम् ? समर्थोऽयं हस्तिनं हनिष्यति । समर्थार्थ इति किम् ? विदेशस्थायी प्रायेणागमिष्यति, तथा संभावनार्थधातुप्रयोगे विभाषया । संभावयामि भुञ्जीत भवान्, भोक्ष्यते वा भवान् । प्राप्ते विभाषा । न तु यच्छब्दप्रयोगे - संभावयामि यद् भुञ्जीत भवान् । एतन्न वक्तव्यमित्युपलक्षणमाह - अपि शिरसेत्यादि । यथा उताप्योर्बादार्थयोः प्रयोगे प्रयोगत एव सिद्धा | उत कुर्याद् इति, अपि कुर्यादिति || ४३५ |
[वि० प० ]
समर्थना० । अन्ये तु समर्थनायां पञ्चमीं नेच्छन्ति । शर्ववर्मणा तु दृष्टाद्यव्याकरणत्वाद् इष्टैवेत्याह- मतमस्येति । " संभावनेऽलमिति चेत् सिद्धाप्रयोगे" (अ० ३।३।१५४) इति केनचिदुक्तम् । अस्यार्थः - संभावने क्रियासु योग्यताध्यवसानेऽलमिति चेत् । समर्थार्थश्चेच्छब्दः सिद्धाप्रयोगो भवति । सिद्धाप्रयोगत्वं च यत्रार्थो गम्यते न च शब्दः प्रयुज्यते । तत्र सर्वविभक्त्यपवादभूता सप्तमी भवति । अलमिति किम् ? विदेशस्थायी प्रायेणागमिष्यति । सिद्धाप्रयोग इति किम् ? समर्थोऽयं हस्तिनं हनिष्यति । तदिह कथमित्याह - अपीत्यादि । सिञ्चेदिति । 'षिचिर् क्षरणे' (५।११) सप्तमी यात्, “मुचादेः” (३|५|३०) इत्यादिना नकारागम:, “याशब्दस्य च सप्तम्याः” (३ | ६ | ६४ ) इति याशब्दस्येकारः । विधौ सप्तमीति । यद्यपि विध्यादिलक्षणा सप्तम्यस्त्येव तथापि पञ्चम्यपि स्यात् । पूर्वोक्तश्च विशेषो न स्यादिति, अतः “ प्रयोगतश्च” (३|१|१७ ) इति सिद्धमित्युक्तम् । तथा संभावनार्थे धातावुपपदे यच्छब्दवर्जिते विभाषा प्रयोगतश्चेति सिद्धेति, तेन विभाषा धातौ संभावने वचनेऽयदीति न वक्तव्यम् भवति । यथा संभावयामि इह भुञ्जीत भवान् संभावयामि इह भोक्ष्यते भवान् । प्राप्ते विभाषा । यच्छब्दस्य प्रयोगे तु पूर्वेण नित्यं सप्तमी - सम्भावयामि यद् भुञ्जीत भवानिति । तथा " प्रयोगतश्च" ( ३।१।१७ ) इति