________________
७६
कातन्त्रव्याकरणम्
शब्दात् परोक्षेत्यर्थः । तदेतन्निराकुर्वन्नाह - अत इत्यादि । ह्यस्तन इत्यादि । सायंचिरम् इत्यादि । सायमादीनामव्ययग्रहणेनैव सिद्धे तदुपादानं नियमार्थं तेनाप्रत्ययमान्ताव्ययानां मध्ये ‘सायंचिरम्' इत्यनयोरेव तनट, नान्येषामिति, तेन साकंसार्धमित्यादीनां न भवति, प्रत्ययानां तु भवत्येव व्यावृत्तेरभावात् । यथा इदानीन्तनमिति । नक्तन्तनमिति साहचर्यात्, तथापि सायंचिरंशब्दोऽघोषाद्यव्ययोऽन्यच्चाघोषाद्यव्ययो व्यावृत्यते । अत एव नक्तन्तनमित्यभिधानादेव सिद्धमिति ।
___ 'प्रारू' इति सप्तम्यन्तोपलक्षणम्, तेन 'पूर्वाह्नेतनम्' इत्यपि भवति । 'प्रगे' शब्दोऽप्येकारान्तमव्ययमिति नियम्यते । ननु पाणिनिमते "भूते" (अ० ३।२।८४) इत्यनुवृत्तौ “अनयतने लङ्" (अ० ३।२।१११) इति सूत्रेणाद्यतनभिन्नातीतकाले ह्यस्तनी विधीयते । ततश्च भूतातीतमात्रे 'अहन्-कंसम्' इत्यादिप्रयोगो भवति । अस्मन्मते ह्य शब्दस्य परोक्षागतकालविषयत्वात् तत्रैव ह्यस्तनी प्राप्नोतीति कथं तत्प्रवृत्ताविति ? सत्यम, ह्य प्रभृतावतीतेऽपरोक्षे तत्कालीनह्यस्तनत्वविवक्षया शस्तनी. परोक्षे तु परोक्षा, ह्यस्तनपरोक्षे तु ह्यस्तन्येवेति साम्प्रदायिकाः। अद्य ह्यो वेति वृत्तिः । ननु कथमत्र हस्तन्यद्यतन्योः प्राप्तिः, यावता पदार्थह्यस्तने पदार्थाद्यतने हस्तन्यद्यतन्यौ भवतः, न तु वाक्यार्थह्यस्तन्यादाविति ? सत्यम्, अद्य ह्यो वेति यदुक्तं तद् व्यामिश्रदर्शनार्थमिति ।
आन्याय्यादित्यादि । उपचाराश्रवणं कष्टमित्याह - अथवेति । पक्षान्तरं वा स्मृत्यन्तरमवलम्ब्याह - उभयत इत्यादि । वाशब्देन मतान्तरमिति । अष्टप्रहरलक्षणं मतान्तरमित्यर्थः । कथमित्यादीति । वसेरद्यतनी रात्रिशेषे जागरणसन्ततौ' इति परः। जागरणसन्ततौ जागस्पाविच्छेद इत्यर्थः । एतत्तु बहुलाधिकारात् सिद्धमित्यर्थः । अन्ये तु भाष्यकारप्रभृतय इत्यर्थः । रात्रिशेषे जागरणसन्तताविति किम् ? अमुत्रावसमिति परस्य प्रत्युदाहरणमिति । अस्मन्यते तद्वक्तव्याभावाद् उक्तरीत्याद्यतन्येव स्यादित्याशङ्क्याह – यो मुहूर्तमपीत्यादि ।
अयमाशयः- रात्रिशेषे यो मुहूर्तमपि सुप्तस्तस्यां प्रभातायां रात्रौ भ्रान्त्यभावादद्यतननिश्चय एव नास्ति, यत्र भ्रान्तिस्तत्राद्यतनत्वनिश्चय इति, एवं च सति अज्ञानज्ञानाभ्यामेवोदाहरणसङ्गतौ किं सूत्रेणेति भावः । 'अगमाम घोषान्, अपाम पयः' इति वृत्तिः। ननु यत्र वस्तुतो गमनं पानं च ह्यस्तनं तत्र कथंमद्यतनीत्याह - ह्यस्तनस्याविवक्षयैवेति । एडिकेति । इकारपाठोऽशुद्ध एव क्षिपकादौ श्रीपतिनाऽपठितत्वात्, तस्माद् एडकेति पाठः साधुः । एतेनेति. असतोऽपि विवक्षावशेनेत्यर्थः । न हीह वस्तुसत्ता शब्दसंस्कारहेतुरपि तु तद्विवक्षापीति भावः । यथा 'अभून्नृप !'