________________
कातन्त्रव्याकरणम्
अनागतस्येष्टार्थस्य लाभेनाविष्करणमाशीः, अर्थाद् भविष्यविषयैव, यदस्या भविष्यद्विधानं तत् सुखप्रतिपत्त्यर्थम् । श्वो भवः काल: श्वस्तनः स चार्थाद् भविष्यन् यदस्या भविष्यविधानं तत्सामान्यभविष्यप्रतिपत्त्यर्थम् । श्वो गमिष्यति मासेन गमिष्यतीति पदसंस्कारात् । अन्वर्थसंज्ञायाः प्रायोवृत्तित्वात् सङ्करः स्यादिति परिभाषेयम् ।।४३२।
[दु० टी०]
तासाम् । तच्छब्देन वर्तमानादयः परामृश्यन्ते अनन्तरा हि भविष्यन्त्यादयः इति स्वाश्च ताः संज्ञाश्चेति स्वसंज्ञाः, आत्मीयसंज्ञा इत्यर्थः । स्वस्य आत्मनो वा संज्ञेति करणे चेयं तृतीया । विशिष्टिर्विशेषः, विपूर्वशिष्लू, भावे घञ्, ज्ञेय शिष्येणेति संबन्धः । कालस्येति कर्मणि षष्ठी । स्वसंज्ञया व्युत्पन्नया कालो विशेषणीय इत्यर्थः । परिभाषेयं स्वसंज्ञाभिर्लिङ्ग्यते । तेनेत्यादि । किं विशिष्टे काले वर्तमानेऽधिकृतश्च काल : प्रकृतेर्विशेषणं वर्तमाने क्रियाकाले वर्तमानाद्धातोरित्यर्थः । प्रत्यक्षेणानुमानेन वा यः काल: परिच्छिद्यमानोऽतीतोऽनागतो वा न भवति स उच्यते वर्तमानः । यद्येवं 'देवदत्तः पचति' इति पाकेनाभिनिवर्त्यमानफलस्य प्रागुत्पादादस्ति नास्ति वा क्रियेति नानुमातुं शक्यते लिङ्गाभावात् । सर्वदा च क्रियाऽनुमेयस्वरूपा प्रत्यक्षस्याविषयत्वात्, फलेन चानुमीयमाना क्रिया अतीतैव । नैतद् दर्शनं व्याकरणे । सा हि द्विविधा - परोक्षा चापरोक्षा च, तत्र याऽपरोक्षद्रव्यसमवायिनी सा परोक्षा, यथा 'वहन्ति सागराः, स्यन्दन्ते नद्यः' इति । या तु प्रत्यक्षद्रव्यसमवायिनी सा प्रत्यक्षा, यथा 'अयं पचति, पच्यते ओदनः' इति । तथा च प्रत्यक्षक्रियानिरासार्थं स्वसंज्ञया परोक्षेऽतीते इति विशेषणमुच्यते । तस्माद् वर्तमानसाधनसमवायात् क्रियापि वर्तमानाव्यपदेशिनी। वेदान्तवादी त्वाह -
अनागतमतिक्रान्तं साम्प्रतं चेति तत् त्रयम् ।
सर्वत्र च गतिर्नास्ति गच्छतीति किमुच्यते॥ व्यवहारवादी पुनराह
क्रियाप्रवृत्ती यो हेतुस्तदर्थ यद् विचेष्टितम् । तदपेक्ष्य प्रयुजीत गच्छतीति विचारयन् ॥