SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ४१ नामचतुष्टयाध्याये प्रथमो पातुपादः [दु० टी०] इदु० । इकार उकारश्चेत्येतेन किमुक्तम् ? इदुदिति प्रत्येकं लुप्तप्रथमैकवचनम् इकारमात्र उकारमात्रश्चाग्निरिति । एतेन ‘अग्नी,पटू' इत्यत्राग्नेः पर औकारः पूर्वमापद्यमान इकारोकारावेवापद्येत न तदन्तं शब्दमिति । किं च "न सखिष्टादावग्निः" (२।२।१) इत्यत्र प्रतिषेधो भविष्यति, तेन ‘परमसख्या कृतम्, उत्तमसख्ये देहि' इति सिद्धम् । अन्यथा तदन्तविशेषणे बहुव्रीहौ सखिशब्दस्य प्रतिषेधो न स्यात् । गौणत्वात् सामान्यनिर्देशादिह तदन्तविधिरपि नाशक्यते लिङ्गमपि नाधिकृतमेव । तथा च व्याख्यातम् - किञ्च विशेषणविशेष्ययोरिष्टत्वात् । इदुदिति किमित्यन्यस्य मा भूदित्यर्थः । तपरमन्तरेण यत्वे वत्वे च यकारो वकारश्चाग्निरिति प्रतिपद्येत । ततश्च 'सेनान्यम्, यवल्वम्' इत्यत्र "अग्नेरमोऽकारः" (२।१।५०) इत्यमोऽकारलोपः स्यात् । अथ "उमकारयोर्मध्ये"(१।५।७) इति ज्ञापकादिति चेत्, नैवम् । सूत्रत्वादम आदिलोपः कृत इति मन्यते ।। ८७। [वि० प०] इदु० । इदुदिति प्रत्येकं लुप्तप्रथमैकवचनम् । अत आह - इकार उकारश्चेति । एतेन केवलयोरेवानयोरग्निसंज्ञा स्यात्, न तदन्तस्येति दर्शितम् । तथा च सति ‘अग्नी, पटू' इत्यत्राग्नेः पर औकारः पूर्वमापद्यमान इकारोकारावेवापधेत न तदन्तं शब्दमिति । 'सेनान्यम्, यवल्वम्' इति तकारमन्तरेणासवर्णे यत्वे वत्वे च कृते स्वग्निरिति सूत्रे यकारवकारयोरेवाग्निसंज्ञा स्यात् । ततश्चेहाप्यमोऽकारलोपः स्यात् । “औरिम्, उमकारयोर्मध्ये" (२।१।४१; १।५।७) इति ज्ञापकाददोष इति चेत्, नैवम् । इकारोकाराभ्यां सूत्रत्वाद् अम आदिलोप इति मन्यते । सेनां नयतीति "सत्सूद्विष०" (४।३।७४) इत्यादिना क्विप् । यवं लुनातीति “क्विप् च" (४।३।६८) इति क्विप् | "अनेकाक्षरयोः" (२।२।५९) इत्यादिना यत्वं वत्वं च ।। ८७। [क० च०] इदुत् । ननु इदुतोर्द्विवचनान्तयोः सामानाधिकरण्येनाग्निशब्दादपि द्विवचनान्तमेव वक्तुं युक्तमित्याशङ्क्याह - प्रत्येकमित्यादि । एतेनेति वृत्तौ इकारान्तोकारान्त इति विशेषाभावेनेत्यर्थः । ननु इदन्तोदन्तत्वेन कथन्न विवृतम्, यावता येन विधिस्तदन्तस्येति
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy