SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये चमो धातुपादः एषामुदाहरणानां विसर्गस्याभावो “घुटि बहुत्वे त्वे, अकारो दीर्घ घोषवति” (२ । . ४) इति प्रयोजनानि । अथ 'अतिरिणा, अतिरिणोः' इत्यत्र न्वागमस्य परादित्वे विभक्तेर्व्यञ्जनादित्वात् कथं 'रैः' इत्यात्त्वं न भवति ? सत्यम् । “नामिनः स्वरे" (२।२।१२) इति नुरागमो विहितस्ततः 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (कात०प० ३१ ) इति ॥ ८६ । ३९ [क० च० ] तृतीयादौ । ननु पूर्वसूत्रे सामान्यतोऽन्त्यस्वराद् भवन् आगमस्योदनुबन्धस्य प्रकृतिभक्तत्वे प्राप्तेऽनेनागमस्योद्बन्धस्य पराद्यवयवत्वं परिभाष्यते । ततश्चतुर्णामित्यत्र ‘चतुरः' इत्यनेनान्त्यात् स्वरात् परः पुनर्स्वागमः कथन्न स्यादिति चेत्, न । आदिशब्देनावयवे उच्यमाने प्राथम्यपुरस्कारेणैवोच्येत । प्राथम्यं चाव्यवहितपूर्वस्थितत्वम् । अतः कथमत्र न्वागमस्यापरादित्वे रेफस्य व्यवधाने न्वागमस्य सिद्धिः । चेत् परादित्वार्थं नुर्भवतु पुनरन्त्यात् स्वरात् परो भवतु इति चेत् ? सत्यम् । उदनुबन्धस्यागमस्य कोऽप्यर्थो नास्ति, किन्तु प्रकृतिप्रत्यययोरर्थाभिधाने साहाय्यमेव क्रियते । तच्चैकेनैव न्वागमेन कृतम्, कथं पुनर्वागमस्य प्रसङ्ग इति । यथा ' भिनत्ति' इत्यत्र नशब्देनैव साहाय्यं कृतमित्यन्न स्यात् । अथवा पूर्वसूत्रस्य सामान्यप्राप्तस्य बाधकमिदं भिन्नविषयेऽपि बाध्यबाधकभावाविरुद्धत्वात् । तथा च ' वृक्षै:' इत्यत्र प्रकृतिप्रत्यययोरपि बाध्यबाधकभावो विवक्षित इति । तुशब्द इत्यादि वृत्तिः । ननु तुशब्दग्रहणं किमर्थम्, यावता " अग्नेरमोऽकारः" (२।१।५०) इति लोपविधानम् । अतस्तृतीयाद्यधिकारनिवृत्तिर्भविष्यति ? सत्यम् । 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (कात०प० २८) इति न्यायात् तत्राग्निशब्दादमोऽकारलोपो भविष्यति, तर्हि "शसोऽकारः " (२।१।५२ ) इत्यत्र 'अस्त्रियाम्' इति ग्रहणं व्यर्थं स्यात्, अग्निशब्दस्य स्वभावतः पुंसि वृत्तत्वात् । चेद्' अत्यग्नीः स्त्रियः' इत्येतद्व्यावर्तनार्थं भविष्यति । न च वक्तव्यम् " न सखिष्टादावग्निः " ( २।२।१) इत्यत्र टादिग्रहणं निरर्थकमिति उत्तरत्र नरपतेर्भूपतेरित्येतत्सिद्ध्यर्थं तस्यावश्यं क्रियमाणत्वात् । यद् वा टादिग्रहणं शसि सखिशब्दस्याग्नित्वप्रतिपादनार्थं भविष्यति । ननु “ इच्छतिनैककर्तृकात्” (३।२।४) इति ज्ञापकात् स्वरूपस्य ग्रहणं न भविष्यतीति चेद् अत्र सूत्रत्वादिति वक्तव्यम् । किंच ज्ञापकेन किमिह प्रत्याख्यातुं न शक्यत इति संक्षेपः । तृतीयाग्रहणस्य 'बहुक्रोष्टुना वनेन' इति फलम् ॥ ८६ । "
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy