SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ कातनव्याकरणम् २. पयांसि । पयस् + जस् (अथवा शस्) । पूर्ववत् जस् की घुट्संज्ञा, 'जस्' को 'शि' आदेश, पयस्-शब्दान्तर्गत यकारोत्तरवर्ती अकार के पश्चात् 'नु आगम, "सान्तमहतो।पधायाः" (२।२।१८) से दीर्घ तथा “मनोरनुस्वारो घुटि"(२।४।४४) से न को अनुस्वार आदेश ।। ८५ | ८६. तृतीयादौ तु परादिः [२।१।७] [सूत्रार्थः] 'टा' से 'सुप्' पर्यन्त प्रत्ययों के पर में रहने पर उन्हीं प्रत्ययों (विभक्तियों) के आद्य अवयव रूप उदनुबन्ध आगम होता है ।। ८६ | [दु०वृ०] आगम उदनुबन्धस्तृतीयादौ विभक्तौ परादिर्भवति । सर्वस्यै, सर्वेषाम्, वृक्षाणाम् । तुशब्दस्तृतीयाद्यधिकारनिवृत्त्यर्थः। ।।८६। [दु० टी०] तृतीया० । पूर्वस्यापवादोऽयम् । तृतीयादौ तु परादिश्चेत्, अतिरिणाऽतिरिणोरित्यत्र रैशब्दस्यात्वं स्यात् । व्यञ्जनादौ यथा 'अतिराभ्याम्' इति । नैवम्, 'सन्निपातलक्षणविरनिमित्तत्वात्' (कात० प०३१), तर्हि तृतीयायां प्रयोजनाभावाच्चतुर्थ्यादाविति वक्तुं युज्यते । णत्वं पुनरागमत्वादेव सिद्धम् । प्रियतिसृणा कुलेनेत्यत्र नकारस्य णत्वमपि न भवति, समासावयवत्वात् ? सत्यम् । यथासम्भवमात्रं तृतीयादिग्रहणम् । तथा च व्यञ्जने ओसि च परादित्वं न दृश्यते, किं च चतुर्थ्यादौ परादिः, तृतीयायां प्रकृतेरवयव इति संदिह्येत । तुशब्द इत्यादि । अव्ययाश्चानेकार्था इत्युत्तरत्र तृतीयानिवृत्तावप्ययं तुशब्दो वर्तते । तृतीयादेस्त्वादिरिति कृते सिध्यति । परग्रहणं प्रकृतिप्रत्ययविभागेन सुखप्रतिपत्त्यर्थम् ।। ८६। [वि० प०] तृतीया० । सर्वस्या इति- "सर्वनाम्नस्तु ससबो हस्यपूर्वाश्व" (२।१।४३) इति श्रद्धायाः परस्य डेवचनस्य यैकारः सुरागमो ह्रस्वपूर्वश्च । परादित्वे सति यथाक्रमम्
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy