________________
कातन्त्रयाकरणम्
तेन ‘राज्ञे धेहि,राज्ञे आगतः' इत्यादौ चतुर्थ्यादिष्वघुट्स्वरत्वादनोऽकारस्य लोपो भवतीति ||८२।
[क००]
पत्र० । आदिशब्दोऽत्र आदित्वे वर्तते, अत एव सप्तमी संगच्छते । अन्यथा 'आदयः' इति वक्तुं युज्यते । अथ कथं पञ्चैवादित्वे वर्तन्ते, सेरेवादित्वे वर्तनात् ? सत्यम् । स्यादिसमुदायानां मध्ये आदौ सेर्घटसंज्ञायां सत्यां तस्यातीतत्वे सति औकारस्य पुनरादित्वम्, तस्यापि संज्ञायां सत्यामतीतत्वे सति अन्येषामपि सम्बन्ध इति वाच्यवाचकलक्षण इत्यर्थः । यथेत्यादि । अयमपि संज्ञी निर्दिष्टः । घुटं प्रयुज्य इतिशब्दानुकरणत्वात् पुंसा निर्देशः।
ननु पञ्चशब्देन पञ्चमीप्रभृतीनामुक्तत्वात् कथं द्वितीयाद्विवचनपर्यन्तमात्रं वृत्ती दर्शितमित्याह - पञ्चशब्देनेत्यादि । स्यादय इति वचनरूपा इत्यर्थः । न त्वित्यादि । त्रिकरूपा इत्यर्थः । प्रधानानुयायिनश्चेति चकारेण शास्त्रव्यवहारोऽपि इति सूच्यते । अथ व्यवहाराश्रयस्य कष्टत्वाद् व्याप्तिन्यायाच्च पञ्चमीप्रभृतीनामेव संज्ञित्वं युक्तमित्याहनाम्नेत्यादि ।
ननु नपुंसके जस्शसोरेव घुट्त्वादकारलोपस्य बाधाभावात् कथं ज्ञापकमिति ? सत्यम् ।पञ्चविभक्तिग्रहणे सति “जस्शसो नपुंसके"(२।१।४) इत्यत्र जस्शसोर्बहुवचनत्वाद् अन्यदपि बहुवचनं नियम्यते न त्वेकवचनमिति । यद् वा जस्शसोः प्रथमाद्वितीयासंबन्धित्वाद् नियमोऽपि प्रथमाद्वितीययोरेव, न तु तृतीयादाविति । अतो नाम्नेति स्फुटमेव न सिध्यतीति ज्ञापकं युक्तमिति प्राचः। तथा चोक्तम् -
विभक्तिपते प्रथमाद्वितीयाबारव घुट्त्वं किस जस्शसोः स्यात् ।
यवेव पुत्वं नियमस्तपेष नाम्नेत्यसिद्धं फुटमेव जातम् ।। तन्न । स्थितिपक्षे जसः प्रथमाबहुवचनत्वात् प्रथमैव नियम्यताम्, न तु द्वितीयेति चोद्यप्रसङ्गात् । तस्मात् “न सखिष्टादावग्निः" (२।२।१) इत्येव ज्ञापकं युक्तम् | अन्यथा घुटि परतो हि ऐत्वे कुतोऽग्निकार्यप्राप्तिर्यन्निषिध्यत इति । यत्तु नाम्नामिति ज्ञापकादित्युक्तम्, तत् प्रथमकक्षायामिति संक्षेपः ।। ८२।