________________
२९
नामचतुष्टपाण्याये प्ररमो पातुपादः [दु०वृ०]
स्यादीनामादौ पञ्च वचनानि घुट्संज्ञकानि भवन्ति । सि, औ, जस्, अम्, औ । घुट्प्रदेशाः "पुटि चासंबुद्धी" (२/२/१७) इत्येवमादयः ।।३ |
[दु० टी०]
ननु सञ्ज्ञासज्ञिनोरभेदविवक्षायामुभयत्र प्रथमा चेत्, घुडिति कथमेकवचनम् ? सत्यम्, सामान्येन घुटं प्रयुज्य किन्तद् घुडिति विशेषविवक्षायां पश्चादादौ पञ्च वचनानि इति संबध्नीयात् । यथा 'वेदाः प्रमाणम्'। यथात्मने न शक्यं यत् किञ्चिद् भुक्त्वा क्षुदमपनेतुमिति सिघुडौ घुडिति प्रत्येकं वा सम्बन्धः, घुटस्तु पुंलिङ्गे निदर्शनम् । साध्योदाहरणं तु 'राजा, राजानौ, राजानः, राजानम्, राजानौ' । ____ ननु राजेति नित्यत्वाद् व्यञ्जनाच्चेति सिलोपे कृते घुट्संज्ञाभावाद् दीर्घो न स्यात् । न च वक्तव्यम् उत्पत्तिकाल एव संज्ञा लोके खलूत्पन्नस्य सतः सद्भाविधानात् । सेस्तु घुट्संज्ञायाः “गोरी घुटि" (२।२।३३) इत्यादिषु प्रयोजनमस्ति । नैवम्, स्वरादवगतं घुट्वं व्यञ्जनादपि तत् प्रत्ययहेतुरिति प्रत्ययलोपलक्षणेन वा लोपात् । 'स्वरादेशो विपिलवान्' (कात० प० ३७) इति वा दीर्घो न विहन्यते । पञ्चशब्दवाच्याः स्यादय एव विशेष्यत्वात्, न तु विभक्तयो विशेषणत्वात् । तेन ‘राज्ञे देहि, राज्ञ आगतः' इत्यनोऽकारस्य लोपो भवत्यघुट्स्वरे, आदिग्रहणमसमञ्जसनिवृत्त्यर्थम् ।। ८२।
[वि०प०]
पञ्चादौ । ननु पञ्चेति संज्ञिनिर्देशोऽयम्, तत् कथं प्रथमासम्बन्धे षष्ठी युज्यते । तदयुक्तम्, संज्ञासंज्ञिनोरभेदस्य विवक्षितत्वात् । यथा 'अयं देवदत्तः' इति, तर्हि घुडिति कथम् एकवचनम्, संज्ञिसमानाधिकरणत्वाद् बहुवचनं प्राप्नोति । यथा 'अमी देवदत्ताः' इति, सत्यम् । सामान्येन घुटं प्रयुज्य किन्तद् घुडिति विशेषविवक्षायां पश्चादादौ पञ्च वचनानीति संबन्धनीयम् । यथा 'वेदाः प्रमाणम्, स्मृतयः प्रभाणम्' इति । पञ्चशब्देन स्यादय एवोच्यन्ते, न तु विभक्तयः,तासां विशेषणत्वेनाप्रधानत्वात् । प्रधानानुयायिनश्च जनव्यवहारा भवन्ति । नाम्ना परपदेनेति ज्ञापकाद् वा । अन्यथाऽनोऽकारस्याघुट्स्वरे लोप उक्तः, कथं तृतीयायां घुट्स्वरे लोपः स्यादिति । अत एवाह - आदौ पञ्च वचनानीति ।सि-प्रभृतीनीत्यर्थः । यत् पुनः स्यादीनामित्युक्तं तदादाविति सम्बन्धवशात् ।