SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् आवश्यकत्वाद् वेत्यर्थः । नापि सकृद् बाधा, भिन्नविषयत्वात् । अचिनवम् इत्यादि । अथ विशेषविधित्वादमोऽकारलोप एव भविष्यतीत्याह-नित्यत्वादिति । ननु "अग्नेरमोऽकारः"(२/१/५०) इत्यत्र विहितविशेषणाद् गुणे कृतेऽप्यमोऽकारलोपो भविष्यतीत्याह-किश्च इति । सुखार्थमिति । दुःखं पुनरेतत् लिङ्गमिति प्रथमान्तस्य पञ्चम्यन्ततया विपरिणाम इति । यदि तु लिङ्गाधिकारो न स्यात् तदा 'सस्तम्, ध्वस्तम्' इत्यादौ "नसियसोश्व" (२/३/४५) इति सकारस्य दकारः स्याद् इत्याह-किञ्चेति कश्चित् । तदेतन्निरासार्थमवश्यं लिङ्गप्रकरणमाश्रयणीयम्, ततो लिङ्गप्रकरणत्वात् स्यादेरेवामोऽकारलोपः स्यादिति पूर्वपरिहारोऽपि न कृतः स्यादित्याशयः । [पक्षान्तरं वा]- आमुष्यायण इत्यादि । नन्वमुष्यशब्दस्य कुञादिपाठसामदेिव भविष्यतीति चेद् अप्सव्यम् इति बोध्यम्, इदमपि दिगादिपाठसामथ्यदिव भविष्यतीति चेद् मृन्मन्यम् इति बोद्धव्यम् । अन्यथा विभक्तिं बाधित्वा मयट्प्रत्यये सति मृत्-शब्दस्य तकारस्य पदान्तत्वाभावात् “पचमे पञ्चमान्०" (१/४/२) इति न प्राप्नोति । नन्वत्र व्यवस्थितवाधिकाराद् भविष्यति चेद् अपदान्तत्वाण्णत्वं स्यात् । न ह्यत्रेत्यादि । 'परो हि सुपो विभक्तयस्तिश्चेति सूत्रं ब्रूते, तदिह नास्तीत्यर्थः । सङ्ख्याकर्मादय इति | अथ विभक्तित्वं किमुभयप्रतिपादकत्वम् ? एकतरप्रतिपादकत्वं वा ? आद्ये प्रथमाया विभक्तित्वं न स्यात्, कर्माद्यर्थाभावात् । द्वितीये त्वेकशब्दस्यापि विभक्तित्वप्रसङ्गः संख्याप्रतिपादकत्वादिति चेत्, प्रत्ययत्वे सतीति विशेषणं देयम्, तथापि क्तप्रत्ययस्यापि विभक्तिप्रसङ्ग इति चेत्, रूढिराश्रयणीया । वस्तुतस्तु प्रत्ययत्वे सति संख्याप्रतिपादकत्वमिति न दोषः ।। ८१।। [समीक्षा] विभक्तिसंज्ञा पूर्वाचार्यों ने तथा पाणिनि ने परिभा. 7 की है। पाणिनि के अनुसार सुप् तथा तिङ् प्रत्ययों में तीन-तीन प्रत्ययों के समुदाय की विभक्ति संज्ञा होती है- "विभक्तिश्च, प्राग दिशो विभक्तिः" (पा० १/४/१०४; ५/३/१)। १. परः= पाणिनिः ।तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः, तान्येकवचनद्विवचनबहुवचनान्येकशः, सुपः, विभक्तिश्च (अ० १।४।१०१-१०४)।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy