________________
कातन्त्रव्याकरणम्
ऽन्तर इति । प्रघ्नन्ति, प्राघानि । हन इति कथम् - द्रुघणः, प्रघणः । इह हनो घनिरादिश्यते, न तु हस्य घः । हन इति किम् ? अर्घेण । अर्हेर्घञि न्यक्वादित्वाद् घः ।। ३२ ।
५३०
३३. पदे षः
पदे परतो यः षकारस्तस्माण्णो न भवति । सर्पिष्पानम्, धनुष्पानम् । पद इति किम् ? सर्पिष्केण, धनुष्केण ॥। ३३ ।
३४. अतद्धितेनाङ् पदेनान्तराये
अतद्धिते परतो यदाङोऽन्यत् पदं तेनान्तराये नस्य णो न भवति । माषकुम्भवापेन, चतुरङ्गयोगेन, नक्रमुखौघेन, वक्रमेघमुखेन, प्रावनह्यति, पर्यवनह्यति । अनाङिति किम् ? पर्याणद्धम्, निराणद्धम् । अतद्धित इति किम् ? आर्द्रगोमयेण, वीरगोमिणा । चान्द्रे तु मयट्यप्ययं निषेधः || ३४ |
३५. ऌवर्णेन
ऌवर्णेनान्तराये नस्य णो न भवति । प्रक्लृप्यमानम्, परिक्लृप्यमानम् । भाष्येऽप्येतत् समर्थितम् | चान्द्रे त्वेतन्न लभ्यते ।। ३५ ।
३६. नशो ड - ष - तदादेशेषु
डे षे तदादेशे च नशो णो न भवति । प्रनड्भ्याम्, प्रनट्, प्रनट्शूरः, प्रनष्टम्, प्रनंक्ष्यति । एष्विति किम् ? प्रणश्यति, प्रणक् प्रणक्षु || ३६ |
३७. क्षुभ्नादेश्च
क्षुभ्नादेश्च नस्य णो न भवति । क्षुभ्नाति, क्षुभ्नीतः, क्षुभ्नन्ति । तृप्नोति, तृप्नुतः, तृप्नुवन्ति । नरीनृत्यते । नृतिं चर्करीतं भाषायामपीच्छन्ति । नरीनर्ति, नरिनर्ति, नर्नर्ति । परिनदनम्, दुर्नद्धि:, दुर्नद्धः । त्रिषु णोपदेशत्वात् प्राप्तः । आचार्यानी, आचार्यभोगीनः । संज्ञायां तु - गिरिनगरम्, हरिनन्दी, शरनिवेशः, परिनर्तनम्, परिगहनम्, परिनन्दनः । दर्भानूपः, सर्भानुः, सूत्रनटः, हर्यग्निः, शरनिवासः, ऋगयनम्, दुर्नाम,