________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
४८७ लोपग्रहणं तत् सुखार्थमेव । अपीत्यादि । “अद् व्यजनेऽनग्" (२।३।३५) इति वचनादत्वं प्रसज्येत । ननु पूर्वं तावदयमविशेषणाद् विधिर्बाधितः, स चायं स्त्रियां चरितार्थ इति नपुंसके तदुक्तप्रतिषेधान्न भवति कथं पुनरत्वं प्राप्नोति, 'सकृद् बाधितो विधिर्वाधित एव' (का० परि० ३६) इति न्यायात् । एवं सति उक्तसमुच्चयमात्रेऽयमपिशब्दः प्रतिपत्तव्यः ।।२८५। ॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां द्वितीये नामचतुष्टयाध्याये तृतीयो युष्मदादिपादः समाप्तः॥
[वि० ५०)
यद्यपि विरामश्च व्यञ्जनादिश्चेति समाहारत्वान्नपुंसकत्वम्, तथापि "नामिनः स्वरे" (२।२।१२) इति नपुंसकलक्षणो नुर्न भवति, सूत्रत्वात् । 'छन्दोवत् सूत्राणि कवयः कुर्वन्ति' । “नपुंसकात् स्यमोपेिऽपि" (२।२।६) इति नपुंसकादिति पञ्चम्या विहितविशेषणमुच्यते, नपुंसकाद्यौ विहितौ स्यमौ तयोर्लोपेऽपीत्यर्थः ।तेन नपुंसकान्ताद् विहितयोः स्यमोलेपि न भवति , यथा बहूनि श्रेयांसि यस्य स बहुश्रेयानिति । अन्यथा 'येन विधिस्तदन्तस्य' (का० परि० १) इति न्यायान्नपुंसकान्तस्यापि व्यञ्जनोक्तनकारलोपः स्यात् । अतो विहितविशेषणार्थं नपुंसकादिति पञ्चमीयम् । यद्येवम् । कस्यैतत् कार्यमित्याह - तस्यैवेति। श्रुतत्वान्नपुंसकलिङ्गस्यैवेत्यर्थः।। ___ 'सुवाक्, सुवाग्' इति ।शोभना वाचो यस्य कुलस्येति विग्रहः । परत्वान्नपुंसकात् स्यमोर्लोपः स्यान्न तु व्यञ्जनाच्चेति । ततो न च तदुक्तमिति प्रतिषेधः स्यात्, विरामे प्रथमतृतीयौ न प्राप्तौ । अतोऽतिदेशसामर्थ्याद् भवतः । ननु कथमत्र तदुक्तप्रतिषेधप्राप्तिः, यतः प्रत्ययलोपलक्षणन्यायेन प्राप्तस्यैव कार्यस्य प्रतिषेधः । तथाहि तस्मिन् लोपे प्रत्ययलोपलक्षणेनोक्तं तदुक्तमिति टीकाकृतोक्तम् । ततो विरामोक्तं कार्य तदुक्तप्रतिषेधाभावादेव भविष्यति किं विरामग्रहणेन । नैतदेवम् । यत्र हि प्रत्यये यत् कार्य क्रियते तत्र स्यमोर्लोपे प्रत्ययस्याभावात् तत् कार्यं प्रत्ययलोपलक्षणेन प्राप्नोति । तत्र प्रत्ययलोपलक्षणन्यायेनैव प्राप्तस्य कार्यस्य प्रतिषेधः । यथा तदित्यत्र त्यदाद्यत्वस्य, यत्र तु निमित्तं नापेक्षते तत्र हि विरामविहितस्य कार्यस्य स्यमोर्लोपे सत्येवोक्तत्वात् । तस्मिन् लोपे उक्तं तदुक्तमिति प्रतिषेधः स्यादेव । नहि तत्र विशेषोऽस्ति, येन प्रत्ययलोपलक्षणेन प्राप्तस्यैव प्रतिषेध इति ।