________________
४८६
कातन्त्रव्याकरणम्
सुधु । एवम् उखानत्, देवेड् इत्यादयः । अपिग्रहणं व्यभिचारार्थम्, तेन इदमोऽत्वं न स्यात् ।।२८५।
॥ इति दोगसिंयां कृत्ती द्वितीये नामचतुष्टयाध्याये तृतीयः पादः समाप्तः॥ [दु० टी०]
विराम० । विरामश्च व्यञ्जनादिश्चेति सत्यपि समाहारद्वन्द्वे नपुंसकलक्षणो न भवति, सुखनिर्देशात् ।सुवाक्, सुवाग् इति । शोभना वाचो यस्येति विग्रहे "नपुंसकात् स्यमोर्लोपः" (२।२।६) परत्वात् न तु व्यञ्जनाच्चेति । ततश्च न च तदुक्तम्' इति प्रतिषेधाद् विरामे प्रथमतृतीयावप्राप्तौ । अथ तत्र तयोः स्यमोरुक्तम्, तस्मिन् प्रत्ययलोपलक्षणे चोक्तमित्युच्यते, तथापि व्यञ्जनादावित्युक्ते विरामोक्तस्य बाधां मन्येत मन्दधीरिति विरामग्रहणम् । व्यञ्जनादावुक्तं सर्वथा न स्यादेवेति कार्यस्य शास्त्रस्य चायमतिदेश इति कार्येऽप्यतिदिश्यमाने यस्याः प्रकृतेर्यदुक्तं तस्यास्तदेवेति श्रुतत्वात् । कथं यत् तत् कुलमिति व्यञ्जने त्यदादीनामत्वमुक्तमेव, नैवम् । न हि स्वरव्यञ्जनेषूक्तं व्यञ्जनोक्तं भवति, विशेषनिर्देशात् । ____अन्यः पुनराह - 'विरामसुभेषु' इति सिद्धे यद् व्यञ्जनग्रहणं तद् व्यञ्जनशब्दोच्चारितकार्यप्रतिपत्त्यर्थम् । सुपथीत्यादि । ननु कथं प्रकरणान्तरप्रकृतीनां व्यञ्जनादावुक्तं स्यात्, नैवम् । व्यञ्जनमेवादिर्यस्येति आदिशब्दे व्याप्त्यर्थ इह न विरुध्यते । यदा तु व्यञ्जनादाविति स्मर्यते तदा भूयो व्यञ्जनग्रहणं व्याप्त्यर्थम् आदिग्रहणं सुखार्थमुक्तम् । उक्तमन्तरेणातिदेशप्रतिपत्तिर्गरीयसी स्यात् । नपुंसकादिति पञ्चम्या विहितविशेषणमाख्यायते । नपुंसकाद् विहितौ यौ स्यमौ तयोः स्यमोोपे सति तस्यैवेति श्रुतत्वान्नपुंसकस्यैवेत्यर्थः । तेन बहूनि श्रेयांसि यस्य स बहुश्रेयान् इति, अत्र नलोपो न भवति । नपुंसकस्येत्युक्ते नपुंसकान्तस्यापि प्राप्नाति । अथ अमा सहचरितस्य सेर्लोपो गृह्यते इति स पुनर्नपुंसकात् स्यमोर्लोप एव ।
यद्येवम्, नपुंसकग्रहणेनापि किम्, पुमानित्यादिषु व्यञ्जनाच्चेति सेर्लोपे व्यञ्जनादावुक्तम्, तन्न भविष्यत्येव ? सत्यम् । प्रतिपत्तिरियं गरीयसीति । नपुंसकग्रहणम्, अस्मिंश्च सति विहितविशेषणमपि युक्तम् । विहितविशेषणेन च स्यमोरिति चरितार्थम्, अन्यथा स्यमोर्ग्रहणमनर्थकमेव । स्यमोरित्युक्तेऽपि स्यमोर्लोप इति गम्यते । यच्च