SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४७६ कातन्त्रव्याकरणम् [वि० प०] इसुस्० । भकारमन्तरेणापि स्यादौ घोषवान् वर्णो नान्यः संभवतीत्याह - भे रः इत्यादि । चकारेण इहार्थमपि सूचयति । तेन घोषवति रो भवति, अघोषे रो न भवतीति व्यावृत्तिबलादस्य प्रतियोगी विसृष्टः साधितो भवति । ‘सर्पिःषु, धनुःषु, दोःषु' इति । अन्यथा 'सृपेरिस्, धनेरुस्, दमे.टस्' इति प्रत्ययस्थत्वात् षत्वमेव स्यात् । विसर्गे च कृते पक्षे पररूपं भवतीति ।।२८०। [क० च०] इसुस० | इसुसन्तानां विसर्जनीये प्राप्ते प्रत्ययस्थत्वात् षत्वं प्राप्नोति तद्बाधको रेफो विधीयते । चकार इहार्थमपि सूचयतीत्यादि । ननु परस्मिन् सूत्रे चरितार्थं घोषवद्ग्रहणं कथमत्र सूत्रे घोषवति रो भवति, अघोषे रो न भवतीति नियमार्थं स्यादिति । न चात्र 'भे रः' इत्युत्तरत्र घोषवतीति कृते सिध्यतीति । यदत्र घोषवद्ग्रहणं तन्नियमार्थमिति वाच्यम् । लाघवार्थमत्रैव घोषवद्ग्रहणस्य कर्तुं योग्यत्वात् ? सत्यम् । 'धुटां तृतीयः' इत्यकृत्वा 'धुटि धुटः सस्य चाशिटस्तृतीयः' इति क्रियताम् । अयमवः - धुटि परे धुटस्तृतीयो भवति, सस्य चाघोषे प्रथमस्य विषयत्वाद् इच्छतीत्यादौ न तृतीयः इति, अर्थाद् घोषवति धुटीति गम्यते । एतदनन्तरम् ‘इसुस्दोषां भे रः' इति क्रियताम्, तदा घोषवद्ग्रहणं नियमार्थम् । नन्वेवं सूत्रे कर्तव्ये लाघवाभावात् प्रत्युत गौरवापत्तेश्च । नैवमस्ति लाघवम् । तथाहि धुटीति निमित्ताश्रयणात् ‘शक्यते' इत्यत्र ककारस्य न तृतीयः शिड्वर्जनात् 'द्विष्ठः' इत्यत्र तृतीयाभावः सिद्धः । सस्येति ग्रहणात् भृज्जतीत्यादौ सस्य तृतीयः सिध्यति ।ततश्चैषां कार्याणामनेनैव सिद्धत्वादाख्याते धुटां तृतीयश्चतुर्थेष्वेवेति नियमार्थं वचनं न कर्तव्यं भवति । अपि च ‘अवमसंयोगाद्' इत्यादिना ‘दनः' इत्यादौ पदे तृतीयाभावदर्शनार्थं क्रियमाणमलुप्तवद्वचनं न कृतं स्याद् धुटीति निमित्ताश्रयणात् । तस्माद् यदतिरिक्तघोषवद्ग्रहणं क्रियते तन्नियमार्थमेवेति न दोषः । तेन तत्प्रतियोगी विसृष्टः साधितो भवति । ननु कथमिदमुच्यते, यावता षत्वविधेर्विसर्गविधेबर्बाधकत्वात् षत्वमेव प्राप्नोति ? सत्यम् । अघोषे सुतरामेव सिद्धस्य रेफाभावस्य नियमेन यद् विधानं तद्
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy