________________
४७५
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः ५. सुकन्भ्याम् । सुकन्स् + भ्याम् । पूर्ववत् संयोगान्तलोप तथा उसका अलुप्तवद्भाव ।।२७९।
२८०. इसुस्दोषां घोषवति रः [२।३।५९] [सूत्रार्थ]
विभक्तिसंबन्धी घोषवान् वर्ण के परे रहते इसन्त, उसन्त तथा दोस् शब्द के अन्तिम स् वर्ण को र् आदेश होता है ।।२८०।
[दु० वृ०]
इसन्तस्य उसन्तस्य दोस्शब्दस्य च रो भवति घोषवति विभक्तौ । सर्पिाम्, धनुभ्या॑म्, दोभ्या॑म् । घोषवतीति किम् ? सर्पिःषु, धनुःषु, दोःषु । 'भे रः' इति सिद्धे घोषवतीत्युत्तरार्थं च ।।२८०।
[दु० टी०] ___ इसु० । “सृपेरिस्, धनेरुस्, दोर्डोस्" (उ० २।४४, ४५, ३१) इति प्रत्ययत्वात् षत्वं प्राप्तम् । रत्वमुच्यते । पिपठिषति, पिपतिषतीति । तत्र विषयसप्तम्यपीति क्विपः प्राग् अस्य च लोपे कृते इस्स्थानित्वाभावात् 'पिपठीभ्या॑म्, पिपतीाम्' इति भवत्येव । षत्वस्य बाधकम् इदं चेत् किमिह घोषवद्ग्रहणेन विरामे व्यञ्जनादावपि रेफादेशः प्रवृत्तः पदमध्ये चरितार्थत्वात् । अन्यत्र विसर्जनीयो भवति । पदान्ते घोषवति च पुना रेफ इति । यथा 'पिपठीः सर्पिर्गच्छति' । तर्हि सर्पिष्यति, धनुष्यति, दोष्यतीति रत्वं भवितुमर्हति शब्दाश्रयत्वात् । यिन्नाय्योनलोप एव करणीय इति नियमेनास्य बाधा न स्यादिति । यद्येवम्, 'भे रः' इति कथन्न विदध्यात् ? सत्यम् । घोषवति रो भवति, अघोषे रो न भवतीति व्यावृत्तिबलादस्य प्रतियोगी विसृष्टः साधितो भवति षत्वापवाद इति । तेन ‘सर्पिःषु, धनुःषु, दोःषु' । पक्षे विसर्जनीयस्य पररूपं भवत्येवेत्याहभे र इत्यादि ! उत्तरार्थं चेति । चकारेणोत्तरार्थं क्रियमाणमिहार्थमपि इत्याविर्भाव्यते । तेन 'पिपठीःषु, पिपतीःषु' इति “रप्रकृतिरनामिपरोऽपि" (१।५।१४) इति बहुलत्वादघोषेऽपि रेफ इति । ततः "इरुरोरीसरौ" (२।३।५२) इति वचनं प्रवर्तते । तथा 'पिपठीः कल्पः, पिपठी: कल्पनम्, पिपठीः पाशः, पिपठीः पुरुषः' इति युक्तार्थे ।। २८०।