________________
४७३
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः तस्य परत्वात् सन्धिलक्षणं भवत्येव, तस्य नामप्रकरणबहिर्भूतत्वात् । यथा 'राजच्छत्रम्, महांश्चरति' इति स्वरात् परस्य छकारस्य द्विर्भावो नकारस्य चानुस्वारपूर्वः शकार इति, तथा परविधिरपि स्यादेव 'दन्तिषु, करिषु' इति षत्वम् ।।२७९ ।
[क० च०]
न सं० । राजभ्यामितीह दीर्घस्यैव प्रतिषेधः स्यादिति । ननुं ईदृश एव सूत्रार्थस्तु मा भूद् राजभिरिति का नो हानिः । नैवम्, ईदृशे सूत्रार्थे सूत्रस्यैव वैफल्यं स्यात् । अथ 'राजभ्याम्' इत्यादिषु चरितार्थत्वात् कथं वैफल्यमिति चेत्, नैवम् । 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इति न्यायाद् बहिरङ्गस्य नकारसंयोगान्तयोलोर्पस्यासिद्धवद्भावाद् दीर्घनलोपादिकं न भवत्येव, तस्माद् ‘राजभिः' इति सिद्ध्यर्थमेव सूत्रविधानम् । तत्तु तदैव संभवति, यदि पूर्वश्चासौ विधिश्चेति कर्मधारयः स्यादिति ।
ननु यदि राजभिरिति सिद्ध्यर्थं सूत्रविधानम्, किं संयोगान्तग्रहणेन, नस्यैवालुप्तत्वं विधीयताम् ? सत्यम् । संयोगान्तग्रहणम् असिद्धवद्भावस्यानित्यत्वसूचनार्थम् । तेन 'यासाम्' इत्यत्र प्रकृत्याश्रितत्वादन्तरङ्गस्त्रीप्रत्ययं प्रति विभक्त्याश्रितत्वाद् बहिरङ्गं त्यदाद्यत्वं नासिद्धम् । 'प्रतिदीनः' इत्यत्र च दीर्घः सिद्धः । अन्यथा अकारलोपस्यासिद्धवद्भावाद् रेफसकारयोर्व्यञ्जनादिनिमित्तत्वाभावेन "नामिनो वोस्कुईरोळाने" (३।८।१४) इत्यनेन प्रवर्तते । तथा कलत्रशब्दादिनि क्विपि सति संयोगान्तरेफस्य लोपेऽसिद्धवद्भावस्याभावात् 'कलद्भ्याम्' इत्यत्र "धुटां तृतीयः" (२।३।६०) इत्यस्य प्रवृत्तिरिति । ___ननु अन्तग्रहणं किमर्थम्, न संयोगावलुप्तवद् इत्यास्ताम्, नैवम् । 'साधुमक्' इत्यत्र संयोगावयवस्यादिधुटो लोपे सत्यनेनैव अलुप्तवद्भावे च न संयोगान्तजकारलोपः स्यात् कुत्र गत्वं प्रवर्तितव्यमिति अन्तग्रहणं देयमिति। ननु तथापि न क्रियताम् अन्तग्रहणं 'येन विषिस्तदन्तस्य' (का० परि० ३) इति न्यायात् संयोगान्तलोपो भविष्यति ? सत्यम् । अनेनैवान्तग्रहणलाभे यत् पुनरिहान्तग्रहणं तत् सर्वथाऽन्तस्यैव लोपेऽलुप्तवद्भावार्थम् । अन्यथा 'साधुमक्' इत्यत्र पूर्व एव दोषः स्यादिति हेमकरस्यायमाशयः ।।२७९।