________________
roz
कातन्त्रव्याकरणम् अलुप्तयोर्यत् कार्यं लुप्तयोरपि तदतिदिश्यते इत्यर्थः । विधीयते इति विधिः कार्यम्, पूर्वश्चासौ विधिश्चेति कर्मधारयः । इतः सूत्रात् प्राग् यो विधिरुक्तः स पूर्वविधिः । न च विधानं विधिः पूर्वस्य स्थान इति नकारसंयोगान्तावपेक्ष्य भवति । तदा राजभिरिति भिस ऐस्त्वं स्यात् । स च नामप्रकरणम् अपेक्ष्य गृह्यते इत्याहपूर्वविधावित्यादि । घोषवति दीर्घो भिस् ऐस्, धुट्येत्वं च न स्यादित्यर्थः । संयोगान्तलोपे लिङ्गान्तनकारलोपो न भवति । सुकन्, सुकन्भ्यामिति । सन्धिलक्षणं तु भवत्येव - राजच्छत्रम्, महांश्चरतीत्यादि।
परविधौ लुप्त एवेति 'दन्तिषु, करिषु' षत्वं भवति । कथं तर्हि 'वृत्रहभ्याम्' इति क्विपमाश्रित्य तोऽन्तो न भवतीति चेद्, 'असिद्ध बहिरङ्गमन्तरत्ने' (का० परि० ३३) इति न्यायात् । ये ‘पन्थिन्, मन्थिन्' इति नान्तप्रकृतिमाश्रयन्ति तन्मतेनापि विरामव्यञ्जनादावित्यनुवर्तनमनर्थकम् ।पथः,पथेति नस्याघुट्स्वरे लुप्तस्यानुषङ्गलोपेऽलुप्तवद्भावात् तृतीयः स्याच्चेत्, नैवम् । संयोगान्तसहचरितस्य नकारस्य ग्रहणादिह कथम् अघुट्स्वरेऽलुप्तस्य नस्यालुप्तवद्भाव इति ।।२७९ ।
[वि० प०]
न सं० । विधीयते इति विपिः कार्यम् । “उपसर्गे दः किः" (४।५।७०) इति कर्मणि किप्रत्ययः । पूर्वश्चासौ विधिश्चेति कर्मधारयः । एतस्मादेव सूत्राद् यः पूर्वो विधिः सः पुनर्नामप्रकरणमपेक्ष्य "अकारो दीर्घ घोषवति" (२।१।१४) इत्यादिना मद्विहितं कार्यमित्याह-पूर्वविधौ लिङ्गान्तदीर्घादिके कर्तव्ये इति । तेन ‘राजभ्याम्' इत्यादौ "अकारो दीर्घ घोषवति" इति, "मिसेस वा, धुटि बहुत्वे त्वे" (२।१११८ १९) इत्येते न भवन्ति । तथा संयोगान्तलोपे लिङ्गान्तनकारस्य लोपो न भवति ।सुकन्भ्याम इति । 'कसि गतिशातनयोः' (२।४८) । सुष्टु कंस्ते इति क्विप् । यदि पुनरिह विधानं विधिरिति भावसाधनो विधिशब्दः स्यात् तदा पूर्वस्येति कर्मणि षष्ठी स्यात् । न च पूर्वो वर्णः कश्चिदिह विधातव्यः संभवति । अथ पूर्वस्य वर्णस्य स्थाने विधिः पूर्वविधिरिति कथन्न स्याद् इति चेत् तद् अयुक्तम् । एवन्तर्हि नकारसंयोगान्तलोपापेक्षया पूर्वत्वं प्रतिपत्तव्यं स्यात् । ततश्च ‘राजभ्याम्' इत्यत्र च दीर्घस्यैव प्रतिषेधः स्यात् । राजभिरित्यत्र "मिसेस वा" (२।१।१८) इति ऐस्त्वं भवत्येव । नकारसंयोगान्ताभ्यां