________________
कातन्त्रव्याकरणम्
४६६
[वि० प०]
संयो० । 'साधु मज्जति, साधु तक्ष्णोति' इति क्विप् । मांसपिपगिति पचेः सन् । द्विर्वचनम् । “सन्यवर्णस्य" (३।३।२६) इतीत्वम् । मांसं पिपक्षतीति क्विपि बुद्धिस्थे पूर्ववदकारलोपे संयोगान्तसकारस्यैव लोपः, न त्वादेधुंट इति । इहानित्यत्वात् पूर्वस्मिंश्चानित्यत्वमुच्यते इति शेषः । यदि रेफात् परस्य वर्णस्य लोपस्तदा यकारस्यैव नान्यस्येत्यर्थः । तेन 'ऊर्छ, ऊभ्याम्' इत्यादि सिद्धम् । 'ऊर्जु बलप्राणधारणयोः' (९।१७) इति चुरादाविनन्तात् क्विप् ।। २७६ ।
[क० च०]
संयो० । पुनः संयोगग्रहणमिति वृत्तिः । पूर्वसूत्रात् संयोगग्रहणानुवृत्त्या सिध्यति, किमत्र संयोगग्रहणेन ? सत्यम् । यत् पुनरिह संयोगग्रहणं तेन पूर्वोक्तसंयोगग्रहणस्यानित्यत्वसूचनार्थम् । अथ पूर्वसूत्रात् संयोगानुवृत्त्यैव साध्यस्य सिद्धिर्भविष्यति । यत् पुनरिह संयोगग्रहणं तदस्यैवानित्यत्वार्थमिति कथन्नानुमीयते इति चेन्नास्ति क्षतिरिति विनिगमनाभावात् । उभयत्राप्यनित्यत्वमस्तीत्येतदेव हृदि कृत्वाह - इह पूर्वस्मिंश्च इत्यादि । ननु ‘मांसपिपग्' इत्यत्र संयोगान्तसकारलोपेऽसवर्णनिमित्तसकारस्याभावात् "चवर्गस्य किरसवर्णे"(३।६।५५) इत्यनेन विहितस्य ककारस्याभावे चकारस्य स्थिती "न संयोगान्त०' (२।३।५८) इत्यादिना संयोगान्तलोपस्यालुप्तवद्भावात् कथं "चवर्गदृगादीनां च" (२।३।४८) इति गत्वम् ? सत्यम् । आदिचतुर्थत्वकार्य प्रति अलुप्तवद्भावो नास्तीति टीकायां वक्ष्यमाणत्वात् ।
तथा च "न सन् डादौ" (कात० परि० - नाम० ५५) इति श्रीपतिनापि विहितम् इति हेमकरस्यापि मतम् । अथ 'ऊर्छ, ऊग्भ्याम्' इत्यत्र नियमे रेफात् ककारस्य लोपो न भवति, रेफाक्रान्तस्य द्वित्वात् ककारात् ककारस्य लोपः कथन्न स्यात् ? नैवम् । निमित्ताभावादुभयककारस्याभावो रेफात् सस्यैव लोप इति नियमस्य वैफल्यं स्यादिति दिक्। ननु स्कोरट्त् - अद्द – श्च्युतामादेरिति नियमात् 'मूलवृड्' इत्यत्र कथं वृश्चेरादिलोपः, तालव्यादित्वात् ? सत्यम् । ऽच्युत इति तालव्योपधस्योपलक्षणत्वाद् वृश्चेरपि बोद्धव्यः । अथवा यजादौ वृश्चिपाठाद् एव आदिधुड्लोपो ज्ञेयः । अन्यथा संयोगान्तलोपे शान्तद्वारेणैव डत्वं सिद्धम्, किं यजादिपाठेन । इदन्तु "हशषछान्त०"