________________
४६५
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः २७६. संयोगादे(टः [२।३।५५] [सूत्रार्थ]
विराम के विषय में तथा व्यञ्जनादि प्रत्ययों के परे रहने पर संयोगसंज्ञक वर्गों में धुट्संज्ञक आदि वर्ण का लोप होता है ।।२७६।
[दु० वृ०]
संयोगादेधुंटो लोपो भवति विरामे व्यञ्जनादिषु च । मस्जे:- साधुमक्, साधुमग्भ्याम्, साधुमक्त्वम् । तक्षेः – साधुतट् , साधुतड्भ्याम्, साधुतट्त्वम् । विरामव्यञ्जनादिष्विति किम् ? गोरक्षौ । पुनः संयोगग्रहणमिह पूर्वस्मिंश्चानित्यार्थम् । तेन - मांसपिपक् । पूर्वस्मिंश्च रात् सस्यैव लोपः- ऊर्छ, ऊग्या॑म् ।। २७६ ।
[दु० टी०]
संयो० । लिङ्गस्य यः संयोगस्तस्यादेरवयवस्य धुटो लोप इति । एवं मस्जेश्च क्विपि कृते - साधुमक्, साधुमग्भ्याम् । एवं रक्षेश्च क्विपि कृते – गोरट्, गोरड्भ्याम् । यथा आख्याते स्कोः संयोगाद्योर्लोपो विधीयते तथा नात्र श्च्युतिर् इह शोपदेश एव पठ्यते । घृतं श्च्योतति' इति क्विप् । घृतश्च्युतमाचष्टे इतीनन्तात् क्विपि कृते आदेः शकारस्य लोप इष्यते – 'घृतक्,घृतग्भ्याम्' ।तथा अट्त् अतिक्रमे, अद्ड् अभियोगे'। टकारदकारोपदेशसामर्थ्यात् तवर्गयोगेऽपि टवर्गो नास्ति टकारदकारयोराद्योरपि लोपः। अत्, अट् ।
यद्येवम् , कलत्रयतेः क्विपि कृते कलत्, कलभ्यामिति न सिध्यति ? सत्यम् । स्कोः श्च्युतेः अट्टति - अड्डत्योरेव प्रतिपत्तव्यम् । तदेतत् कथमिति मनसि कृत्वाह - पुनः संयोगग्रहणमित्यादि । “संयोगान्तस्य लोपः" (२।३।५४) इत्यतः संयोगो वर्तिष्यते यत् पुनः संयोगग्रहणं प्रत्येकं तत् ‘संज्ञापूर्वको विधिरनित्यः ' (का० परि० ३०) इति प्रतिपत्त्यर्थम् । यथा 'मांसं पिपक्षति' इति क्विपि कृते मांसपिपक्। यथा रात् सस्यैव लोपः इति नियमः सिद्धो भवति, तथेदमपीत्यर्थः । अथवा पुनःसंयोगग्रहणमिति नात्र पुनः शब्दः पुनरुक्तार्थे, किन्तर्हि वाक्यावधारणे । संयोगग्रहणं पुनरनित्यार्थमित्यर्थः । अनित्योऽर्थः साध्योऽस्येति विग्रहः । तदिह मण्डूकप्लुतिन्यायेन वाधिकारो व्यवस्थितविभाषार्थः । संयोगग्रहणं तु प्रत्येकं सुखप्रतिपत्त्यर्थम् ।। २७६ ।