SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो युष्मत्पादः आशिषावित्यादौ औकारादौ निमित्ते पुनरनन्त्यत्वात् "शासिवसिघसीनां च” (३ ।८।२७) इति षत्वं स्यादेव । यत्तु टीकाकृत्ता "शासिवसिघसीनां च " ( ३।८।२७) इति षत्वे लाक्षणिकत्वाड्डत्वं नास्तीत्युक्तम्, तन्न आशीरित्येतदर्थम्, किन्तु आशीर्भ्याम् इत्यादौ व्यञ्जननिमित्त एव बोद्धव्यम् । न च स्यादिघुटि पदान्तवदित्यनेन आशीर्भ्याम् इत्यादौ पदान्तवद्भावेऽन्त्यत्वात् कथं षत्वमिति वाच्यम्, स्यादिघुटि पदान्तवद् इत्यस्यासार्वत्रिकत्वात् । तेन 'निघुड्भ्याम् ' इत्यादौ डत्वं सिद्धम् । अन्यथाऽनेन पदान्तवद्भावे लिङ्गान्तत्वाभावात् कथं हशषछान्तेत्यादिना लिङ्गान्तविहितं डत्वं पदान्ते स्यात् । न च “हशषष्ठान्त० " ( २ । ३४६) इत्यत्र 'व्यञ्जनादिषु' इत्यधिकारानुवर्तनात् ‘निघुड्भ्याम्, षड्भ्यः' इत्यादिषु डत्वं स्यादेव । अन्यथा तदनुवृत्तिवैफल्यप्रसङ्गत्वेन पदान्तवद्भावात् तद्विषयाभावः स्यादिति वाच्यम्, 'व्यञ्जनादिषु' इत्यधिकारानुवर्तनस्य 'परमनिघुड्भ्याम्' इत्यादिषु सुभोर्नोत्तरपदस्येत्यनेन पदान्त-' वद्भावनिषेधविषये चरितार्थत्वात् । अत एव " डढणपरस्तु णकारम्” (१।४।१४) इत्यत्र टीकाकृता पदान्तप्रस्तावे टकारान्नकाराच्च परः सकारस्तादिर्भवति वा । 'विट्त्साधुः, विट्साधुः । भवान्त्साधुः भवान् साधुः' इत्युक्तम् । " सुपि च" इति वक्तव्यान्तरस्य ‘विट्त्सु' इत्युदाहृतम् । अन्यथा सुप्यपि स्यादिघुटि पदान्तवदित्यनेन पदान्तवद्भावे पूर्वेणैव विट्त्सु इत्यादिकं सिद्धम्, किं वक्तव्यान्तरेण ? अत एव तत्रैव नेह स्यादिघुटि पदान्तवदित्यादृतमिति हेमकरः । 1 ४५७ कुलचन्द्रेणाप्युक्तम् | श्रीपतिनापि डत्वापवाद इति यदुक्तं तत् सजुषः सर्वत्र, आशिषस्तु सुभोः पदमिति पदत्वे सति सुभोर्नोत्तरपदस्येत्यनेन पदत्वनिषेधात् परम् आशीर्भ्याम् परम् आशीर्भिरित्यादावनन्त्यत्वात् षत्वे कृते ज्ञातव्यमिति मूर्धन्यस्यैव संगच्छते इति भावः । आशीरिति दन्त्यसकारस्य सो व्यञ्जने नामिभ्यो रः इति रेफे सिध्यतीति | दुर्गमते च " नामिपरो रम्” (१ |५|१२) इति रेफे आशीरिति स्यात् । यत्तु वृत्तौ 'आशी : ' इत्युक्तम्, तत् प्रकृतिप्रदर्शनार्थं प्रच्छ– पथिप्राडितिवत् । ननु विभक्तिव्यञ्जने रेफस्य न स्यादिति प्रतिषेधस्य विद्यमानत्वात् कथं 'सजूः षु, आशीषु' इत्यत्र विसर्गः: ? अत आह- अघोषे चेति पञ्जी । भवति चेति वक्तव्यबलादित्यर्थः ।। २७२ । [समीक्षा] 'सजुष् + सि, सजुष् + भ्याम्, आशिष् + सि, आशिष् + भ्याम्, आशिष् + सुप्, आशिष् + त + सि' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य षकार
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy