________________
४५६
कातन्त्रव्याकरणम्
[दु० टी० ]
सजु० । सह जुषते इति क्विप् । सजुषो डत्वं प्राप्तम् । आशंसनम् आशीः, सम्पदादित्वात् क्विप् | भावे ' आङ : शासेरिच्छार्थस्येत्वं ज्ञापयिष्यति । " शासिवसिघसीनां च" (३।८।२७) इति षत्वे लाक्षणिकत्वात् डत्वमपि नास्तीति षकारस्य स्थितिरेव प्राप्ता, नलोपश्चेति नियमेन च यिन्नाय्योः 'आशिष्यति, आशिष्यतः ' इति भवितव्यम् । अघोषे रेफस्यास्य विसर्ग एवेति 'सजूः षु' इत्यादि ।। २७२ ।
[वि० प० ]
सजुषा० । सह जुषते इति क्विप् । सहस्य सभाव उक्त एव । आशंसनम् आशीः, सम्पदादित्वाद् भावे क्विप्, शासेरिदुपधाया अनव्यञ्जनयोरित्यत्र आङ: शास इच्छायाम् इत्यस्यापीत्त्वं ज्ञापयिष्यते - रेफे सति इरुरोरीरूरौ इति दीर्घत्वम् अघोषे परे चास्य रेफस्य विसर्गो वक्ष्यत इत्याह- सजूः षु इत्यादि ॥ २७२ ॥
[क० च० ]
सजु० । र् इत्यस्वरोऽयमादेशः । वर्णान्तस्य विधित्वेन सकारस्य कार्यिणोऽस्वरत्वात् । अ इति नाशङ्क्यते । कार्यिणः षकारस्य व्यञ्जनत्वेन कार्यस्यापि तथैव युक्तत्वात् । सजुषो डत्वे प्राप्ते आङः शासेस्तु " शासिवसिघसीनां च " ( ३।८।२७) इति षत्वे “हशषष्छान्त०' (२| ३ | ४६) इत्यत्र षकारग्रहणस्य प्रातिपदिकतया षकारस्य स्थितिप्राप्तौ रेफ उच्यते इति टीकाकृत् । श्रीपतिमते लाक्षणिकपरिग्रहार्थत्वात् डत्वमेव प्राप्तमिति । अत एव सजुषाशिषोस्तु मूर्धन्यस्यैव डत्वापवादो रेफ इत्युक्तम् । न च लाक्षणिकपरिग्रहणे 'सर्पिष्षु' इत्यादौ प्रसङ्ग इति वाच्यम् । यजादिसाहचर्याद् हशषछान्तानामपि प्रकृतिभूतानामेव स्यात् ' सर्पिष्षु' इत्यादौ तु सृपेरिसादेः प्रत्ययत्वेन प्रकृतिभूतत्वाभावात् कुतः प्रसङ्गः ।
अथोभयमते - "विष्णौ च वेधाः, स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः” (अ० को० ३।३।२२८) इति सान्तत्वेन विरोधः । यदुच्यते " शासिवसिघसीनां च " ( ३।८।२७) इत्यनेन षत्वविधानात् क्विपो लोपे त्वन्त्यत्वात् षत्वनिवृत्तौ दन्त्यान्तोऽयमाशी : शब्द इति । अत एवाविकारस्थोऽयमारम्भ इति वक्ष्यति । अनन्त्यत्वाभावे षत्वनिवृत्तौ हि " रात् सस्यैव " इति ज्ञापकम्, कथमन्यथा 'कटचिकी:' इत्यादौ सकारलोपः संगच्छते ।