________________
कातन्वयाकरणम्
प्रत्यञ्चतीति क्विपि कृतेऽञ्चेरनुषङ्गलोपाभावो ज्ञापित एव । प्रत्यङ्, युङ्, क्रुङ् इति । "पुजेरसमासे नटि" (२।२।२८) इति नुरागमः । अन्यथा नित्यत्वात् परत्वाच्च प्राक् संयोगान्तलोपे कथमिदं स्यात् । तत् पुनरञ्चियुजिक्रुञ्चामेव । अन्येषां तु संयोगान्तस्यैवाग्रतो लोप इति । यथा 'खजि गतिवैकल्ये' (१।६९)। खन्, खभ्यामिति। दृगादिषु ऋत्विजादीनां त्रयाणां चवर्गान्तत्वेऽपि नित्यत्वाद् यजादित्वे प्राप्ते गत्वार्थः पाठः ।।२६९ ।
[क० च०]
चवर्ग० । ऋत्विजादीनां त्रयाणामित्यादि । ननु ‘सज्' इत्यस्य कथं डत्वप्राप्तिः, यजादिषु पाठाभावात् ? सत्यम् । सृज इति यजादौ धातुमात्रपाठात् तत्स्थाने निपातस्यापि यजादित्वे को विरोधः । वररुचिस्तु मजपाठमेव नाद्रियते इति दिक् । ननु दृगादौ असृजशब्दपाठात् कथं 'विश्वसृग्' इत्यत्र गत्वम् ? सत्यम् । 'असृज' इत्यत्र एवं व्याख्यातव्यम् । अकारात् सृज् असृज इत्यर्थे सति विश्वशब्दस्याकारात् परस्य सृजशब्दस्य विद्यमानत्वाद् इति हेमकराशयः। तन्न । न सृज् असृज् इति टीकायां नसमासस्योक्तत्वात् तस्माद् व्यवस्थितविभाषया गत्वसिद्धिरिति । शरणदेवस्तु "न्यहरवादीनां हश्च गः" (४।६।५७) इत्यादिना गत्वमुच्यते ।।२६९।
[समीक्षा]
'वाच्+सि,वाच् + भ्याम्, तृष्णज्+ सि,तृष्णज् + भ्याम्, दृश् + सि, दृश् + भ्याम्, दृश् + त्वम्' इस अवस्था में कातन्त्रकार अन्तिम वर्ण को गकारादेश करके 'वाक्, वाग्भ्याम्, तृष्णक्, तृष्णग्भ्याम्, दृक्, दृग्भ्याम् , दृक्त्वम्' इत्यादि शब्दरूप सिद्ध करते हैं । पाणिनि चवर्ग के स्थान में कवगदिश का विधान करते हैं - "चोः कुः" (अ० ८।२।३०) । इससे 'वाक्, तृष्णक्' जैसे शब्द सिद्ध होते हैं । दृश् से 'दृक्' आदि शब्दों के साधनार्थ पाणिनि ने "वश्वप्रस्नसृजमृजरजराजभाजच्छशां पः" (अ० ८।२।३६) से श् को मूर्धन्य ष्, "झलां जशोऽन्ते" (अ० ८।२।३९) से ष् को इ तथा ड् को ग् आदेश का विधान किया है । इस प्रकार पाणिनीय प्रक्रिया में स्पष्टतः गौरव सन्निहित है।
[रूपसिद्धि]
१. वाक् । वाच् + सि । "व्यानाच्च" (२।१।४९) से सिलोप, प्रकृत सूत्र द्वारा च् को ग् तथा "वा विरामे" (२।३।६२) से ग् को क् आदेश |