________________
४४५
नामचतुष्टयाप्याये तृतीयो युष्पत्पादः [दु० वृ०]
चवर्गान्तस्य 'दृश्' इत्येवमादीनां च लिङ्गानामन्तस्य विरामे व्यञ्जनादिषु च गो भवति । वाक्, वाग्भ्याम्, वाक्त्वम्, वाक्कल्पः । तृष्णक्, तृष्णग्भ्याम्, तृष्णक्त्वम् । दृक्, दृग्भ्याम्, दृक्त्वम् । ‘दृश्, स्पृश्, मृश्, दधृष्, उष्णिह्, ऋत्विज्, सृज्, असृज्' एते दृगादयः ।।२६९।
[दु० टी०]
चवर्ग० । “क्विबचिपच्छिश्रिद्धसूपुवां दीर्घश्च" इति "तृषिपृषिस्वपां नजिङ्" (४।४।५४)। दिशति तामिति दिक्, क्विप् । घृतं स्पृशतीति घृतस्पृक् । “सृशोऽनुदके" (४।३।७०) इति क्विप् । "ऋत्विग्- दधृक् -मग-दिगुष्णिहश्च" (४।३१७३) इति क्विबन्ता निपात्यन्ते । न सृजतीति असृक्, क्विप् । दृगेवादिर्येषामिति बहुव्रीहिं कृत्वा पश्चाद् द्वन्द्वसमासः । यथाप्राप्तस्य बाधकमिदम् । ननु चजाभ्यामन्यश्चवर्गो नास्तीति चजदृगादीनामिति किन्न विदध्यात्? सत्यम् । वर्गग्रहणं संयोगान्तलोपमपि बाधित्वा गत्वार्थं "वर्गे वर्गान्तः" (२।४।४५) इति गत्वस्य चरितार्थत्वात् पश्चात् संयोगान्तलोपो भवत्येव । प्रत्यङ्, प्रत्यङ्भ्याम् । क्रुङ्, क्रुभ्याम् । युङ् । अन्यथा यथा वाञ्छः क्विपि कृते 'वान्, वांशौ' इति भवति । तथा एषाम् इनि परत्वात् संयोगान्तलोपः स्यात् । तत् पुनः अन्चियुजिक्रुन्चामेवाभिधानात् । 'खजि गतिवैकल्ये (१।६९), गुजि अव्यक्ते शब्दे'(१९७४) खन्, खनौ । गुन्, गुञ्जौ । यद्यभिधानं दृश्यते । अथवा तत्र व्यवस्थितविभाषया एषां प्रागेव गत्वे पश्चात् संयोगान्तलोपः ।।२६९ ।
[वि० प०]
चवर्ग० । वाक्कल्प इति । ईषदसमाप्तौ वागिति पूर्ववत् कल्पप्रत्ययः । तृष्णगिति | "तृषिधृषिस्वपां नजिङ्" (४।४।५४) इति नजिङ् प्रत्ययः, 'तवर्गस्य घटवर्गावर्गः" (३।८।५) इति नस्य णत्वम् । ननु वर्गग्रहणं किमर्थम् - चजाभ्यामन्यश्चवर्गो नास्तीति चजदृगादीनामित्युच्यताम्, सत्यम् । वर्गग्रहणं नित्यमपि संयोगान्तलोपं बाधित्वा गत्वार्थम् । ततो वर्गे वर्गान्तत्वे सति गत्वस्य चरितार्थत्वात् पश्चात् संयोगान्तलोपे सतीदं सिद्धं भवति । प्रत्यक्ष्यामिति,