________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
४३७
[दु० वृ० ]
नसिध्वसोर्लिङ्ग्ङ्गयोरन्तस्य विरामे व्यञ्जनादिषु च दो भवति । उखास्रत्, उखानद्भ्याम्, उखाम्नत्कल्पः । पर्णध्वत्, पर्णध्वद्भ्याम्, पर्णध्वद्देश्यः ॥ २६६ ॥ [दु० टी० ]
म्नसि० । म्रन्स्ध्वन्सोर्धात्वोः क्विपि कृतानुषङ्गलोपयोर्ग्रहणं विसर्गस्यापवादः । पृथगारम्भे हि सति चकारोऽयम् । स च अनुक्तसमुच्चयार्थ इति अग्युक्तस्याव्ययककारस्य दत्वं सिद्धं भवति । धिक्, धकित्, पृथक्, पृथकत् । यथासंख्यमिह नास्ति व्यञ्जनादिष्विति बहुवचनात् || २६६ ।
[वि० प० ]
सि० । 'ऊखायाः संसते, पर्णानि ध्वंसते' इति क्विपि कृते " अनिदनुबन्धानामगुणेऽनुषङ्गलोपः " (३।६।१) । उखास्रत्कल्पः इति । । ईषदसमाप्त खादिति विगृह्य “ ईषदसमाप्तौ कल्पदेश्यदेशीयाः” (२।६।४० - ४ ) इति तमादि-दर्शनात् कल्पप्रत्ययः। तथा ‘पर्णध्वद्देश्यः' इति देश्यप्रत्ययः ।। २६६ ।
[क० च० ]
म्नसि०। विसर्गस्यापवादोऽयम् । अथ पूर्वत्र 'वन्सिन सिध्वसाम्' इत्येकयोगः क्रियताम् ? सत्यम् | पृथग्वचनाच्चकारोऽयमनुक्तसमुच्चयार्थः । तेनाग्युक्तस्य कान्ताव्ययस्य पक्षे दत्वं सिद्धम् | धिक्, धकित् । पृथक्, पृथकत् । यथासंख्यमिह नाशङ्क्यते 'व्यञ्जनादिषु' इति बहुवचनादिति टीका || २६६ |
[समीक्षा]
‘उखानस् + सि, उखाम्नस् + भ्याम्, उखास्रस् + कल्प + सि, पर्णध्वस् + सि, पर्णध्वस् + भ्याम्, पर्णध्वस् + देश्य + सि' इस अवस्था में पाणिनि तथा कातन्त्रकार दोनों ने ही सकार को दकारादेश का विधान करके 'उखास्रत्, उखाम्रद्भ्याम्, उखास्रत्कल्पः, पर्णध्वत्, पर्णध्वद्भ्याम्, पर्णध्वद्देश्य : ' शब्दरूप सिद्ध किए हैं। पाणिनि का सूत्र है - " बसुस्रंसुध्वंस्वनडुहां दः" (अ० ८।२।७२) । इस प्रकार उभयत्र प्रक्रियासाम्य ही है ।