________________
४३४
कातन्त्रव्याकरणम् इति न्यायात् । नैवम् । 'उपानद्' इत्यत्र विरामग्रहणस्य चरितार्थत्वात् । 'विद्वान्, अनड्वान्' इत्यत्र ‘आदेशाद् आगमो विधिर्बलवान्' (भो० परि० १०१) इति सौ न्वागमे सति परत्वात् संयोगान्तलोप एव स्यात् । संज्ञाविधावनुषङ्गलोपस्य बलवत्त्वं दर्शितमेव । 'विद्वद्भ्याम्' इत्यत्र दत्वमिदं विसर्जनीयस्यैव बाधकं न संयोगान्तलोपस्येति विरामग्रहणमुत्तरार्थमिहार्थं च ।लोपविधेर्बलवत्त्वात् सिलोपे कृते 'वर्णाश्रये प्रत्ययलोपलक्षणं नास्ति' (व्या० प० पा० ९६) इति । तथा ‘पञ्च, सप्त' इति जस् - शसोलुकि कृते "लिङ्गान्तनकारस्य" (२।३ । ५६) इति नलोपो न स्यात् । 'विरामसुभेषु' इति कृते विरामव्यञ्जनादावित्यत्र व्यञ्जनशब्दाश्रितपक्षे दुष्यति । इतरपक्षेऽपि सुखार्थमेव, न तु सामान्यार्थम् । यस्माद् आदिग्रहणमिह विभक्त्यधिकारात् सामान्यं व्यञ्जनं लभ्यते इति तदर्थं व्यञ्जनमिह सामान्यं चेत् समासेऽपि स्वरे तर्हि व्यावृत्तिः स्यात्, अनडुदागमनम् इत्यादिषु, नैवम् । “व्यञ्जनान्तस्य यत् सुभोः” (२।५।४) भविष्यति, तर्हि 'आनडुहं चर्म, वैदुषं वाक्यम्' इत्यत्रापि स्यात् ? सत्यम् । तत्र यद्यपि पूर्वयोर्योगयोयुक्तार्थोऽनुवर्तते तथापि तत्र प्रकरणबलात् समासमेवानुवर्तयिष्यामः ।
यद्येवं 'दिवौकसः' इत्यत्रापि "यजनान्तस्य यत्सुभोः" (२।५।४) इति उत्वं स्यात्, न सामान्यव्यञ्जनाश्रयत्वात् । क्व तर्हि "यजनान्तस्य यत्तुभोः" (२।५।४) इति प्रवर्तते चेत्, नाहं जाने, अनियतविषयत्वात् । अपरस्तु ब्रूते – “औ सौ, वाम्या, दिव उद् व्याने" (२।२।२६, २७, २५) इत्यस्माद् योगतस्तान् योगान् पूर्वं विदध्यात्, न प्रकरणान्तरे स्थापयेत् । तस्माद् अर्थादिह प्रकरणे "व्यानान्तस्य यत् सुभोः" (२।५।४) इत्युपतिष्ठते न्यायः, पुनरत्र विभक्ताविति वर्तते, तदपेक्षया व्यञ्जनादिसामान्य भवत् प्रत्यय एव गम्यते इति चोद्यमिदमपास्तमेव । ‘यच्चरति, तच्चरति' इति चवर्गस्य गत्वं कथन्न स्याद् इति प्रतिपदोक्ताश्रयणमपि कष्टमिति । येनेष्यते अनामिति, अनडुहि साध्विति विग्रहः । तत्रायं समाधिः “स्वरे प्रत्यये ये च" (२।६।४४) इत्यत्र प्रकरणबलात् तद्धितो यकारोऽवसीयते स च प्रत्ययत्वं न व्यभिचरति तत्र यत् प्रत्ययग्रहणं तद् विशिष्टसंज्ञावधारणार्थं प्रतिपत्तव्यम् । प्रति एतीति प्रत्ययः। स्वरमुच्चार्य व्यञ्जनमुच्चार्यते, व्यञ्जनं चोच्चार्य पुनः स्वर इति पूर्वाचार्या अघुट्स्वरमपि प्रत्ययमाहुः । तेन प्रत्यये ये इति विशेषणात् तद्धितयकारस्याघुट्स्वरत्वमध्यारोप्यते । प्रयोजनं तु ये व्यञ्जनकार्यं मा भूत् । न हि वन्सेरिकार उच्चारणार्थः, क्वन्सुवन्स्वोरुत्सृष्टानुबन्धयोर्ग्रहणमिति ।। २६५ ।