SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् २. अमीभ्यः। अदस् + भ्यस् । पूर्ववत् सकार को अकार, पूर्ववर्ती अकार का लोप, “घुटि बहुत्वे त्वे” (२।१।१९) से अ को ए, दकार को मकार, अ को ए - ए का लोप, प्रकृत सूत्र से एकार को ईकार तथा "रेफसोर्विसर्जनीयः " (२।३।६३) से स् को विसगदिश || २६३। २६४. अपां भेदः [ २।३।४३ ] ४३२ [ सूत्रार्थ ] भकारादि विभक्ति के परे रहते 'अप्' शब्द के अन्तिम वर्ण को द् आदेश होता है || २६४ | [दु० वृ०] अपां विभक्तौ भे दो भवति । अद्भिः स्वद्भ्याम् । विभक्ताविति किम् ? अब्भारः ।। २६४ । [दु० टी० ] अपाम्० । अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वाद् बहुवचनम् | ‘दः' इत्यकार उच्चारणार्थः । किमयं दादेश उतादादेश इति न चोद्यम्, उभयथाप्यदोषात् । किन्त्वकारस्याकारविधाने न किञ्चित् फलमिति द एवान्ते विधीयते । शोभना आपो ययोरिति विग्रह: । 'समासान्तविधिरनित्यः ' ( व्या० परि० ७५) इति । अपामिति बहुवचनं विदधतः सूत्रकारस्य मतं बहुवचनमेव लक्ष्यते इति । अन्यथा शब्दविधाने हि निःसन्देहार्थम् इति विदध्यादिति || २६४ | [वि० प० ] " अपां प्रकृत्वादिह विभक्तिरनुवर्तते इत्याह- अपां विभक्ताविति । अपामन्तस्य दकारो भवति विभक्तौ भ इत्यर्थ: । तेन समाससंबन्धिन्यामपि विभक्तौ भ इति । स्वद्भ्याम् इति । शोभना आपो ययोरिति विग्रहः । “पन्य्यप्पुर : " (२।६।७३ - १९) इति राजादिपाठादत्प्रत्ययो नास्ति, समासान्तविधेरनित्यत्वात् | अब्भार इति । अपो बिभर्ती कर्मण्यण् । अपामिति बहुवचनेन सूत्रकारो ज्ञापयति 'बहुवचनान्त एवायं स्वभावात्' । अन्यथा शब्दप्रधाननिर्देशे 'अप:' इति विदध्यात् || २६४ | [ क० च० ] अपाम्० ।‘दः' इत्यकार उच्चारणार्थः, एकवणदिशप्रस्तावात् ' अथ किमर्थमयं दादेशः, अदादेशो विधीयताम्, नैवम् । 'अनेकवर्णः सर्वस्य' (का० परि० ६ ) इति
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy