________________
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः
४२१ इति । अनुशब्दः पश्चादर्थे । अनु = पश्चाद् आदेशः अन्वादेशः, अनुकथनमित्यर्थः । तच्च पूर्वकथितस्यैव भवति, नाकथितस्य | विषयसप्तमीयमित्याह - कथितस्यैवेत्यादि । एत इत्यकारान्तः ।त्यदादीनामेतच्छब्दस्यैकदेशो गृह्यते ।तेन त्यदाद्यत्वं कृत्वा एत-शब्दस्यैव एनादेशः कार्यः । यत्र तु त्यदाद्यत्वं नास्ति, तत्र नित्यत्वादमो लोपे तदुक्तप्रतिषेधात् तत्र द्वितीयायामिति विषयसप्तमीत्वाद् अमोऽभावेऽपि दकारेण व्यवहितस्यापि एतच्छब्दस्यैनादेशो भवत्येव । यथा 'एतत् कुण्डलमानय, अथो एनं परिवर्तय' । इदमस्तु 'इदं कुण्डलमानय, अथ एनं परिवर्तय' इत्येव भवति ।तथा चोक्तं चान्द्रव्याकरणे- एवम् इदमोऽपि योज्यम्, अयं तु विशेषः– 'इदं कुण्डलमानय, अथो एनं परिवर्तय' इति मकारान्त एवेति ।।२५८।
[क० च०]
एतस्य० । 'सबलताश्च कर्तुरे' इति करवाचकस्य एतशब्दस्य न ग्रहणम्, त्यदादिसम्बन्धात् । ननु अनुकथनविषये एनादेशो भवतीति उक्तम्, तत् कथम् 'नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय' (गी० गो० १।१) इत्यत्र एनादेशो न स्यात् । उच्यते - यया विभक्त्या कथनं तया विभक्त्या कर्माद्यर्थपुरस्कारेणैवानुकथनमपि स्यात्, तदैव एनादेशः । तथा च. श्रीपतिः- यत्र कर्मादिकतया किञ्चित् प्रतिपाद्य पुनरुद्यते, सोऽत्रान्वादेशः । अत एव वृत्तावपि 'एतं व्याकरणमध्यापय, अथो एनं वेदमध्यापय' इत्यत्र समानकारकविभक्त्या निर्देशो युक्तः, अत्र पुनः 'नक्तं भीरुः' इति स्वरूपकथनमात्रम् । तथा च टीकायाम्- 'अयं दण्डो हरानेन' इत्यत्र नायमन्वादेशः, एकदेशविधानत्वादित्युक्तम्, तर्हि कथम् अपादानकारके दुःखहेतुरयमधर्मस्ततो नैनं सन्तः कर्तुमर्हन्तीति त्रिलोचनविवरणं संगच्छते ? सत्यम् । 'धर्मादन्तरं दृश्यते' इति क्रियाध्याहारेण कर्मार्थविशिष्टत्वान्न दोषः ।।
ननु कथम् ‘उवाच नैनं परमार्थतोऽयम्' इत्यादिप्रयोगो गृह्यते इति । येन शब्देनानुकथनं तेन शब्देनैकार्थपुरस्कारेण कथनाभावात् ? सत्यम् | मण्डूकप्लुत्या व्यवस्थितवाधिकारादन्यत्रापि भवतीत्यदोषः । अन्ये तु एनशब्दो द्वितीयादिषु नियतप्रयोगः प्रकृत्यन्तरमस्तीति । वचनमिदं तु इदम एतस्य चानुकथने प्रयोगनिरासार्थमित्याहुः ।।२५८।
[समीक्षा]
अन्वादेशः= अनु पश्चाद् आदेशः। कथितस्यैवानुकथनम् । अर्थात् जिसके लिए पहले कुछ कहा जाए, उसी के लिए पुनः कहना । इस अर्थ में ‘अन्वादेश' शब्द